SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् प्रतिपालयेन्महाव्रतानि । सञ्युज्येत् समितिभिः । गुप्तीभूयाद् गुप्तिभिः । परिणमयेदात्मनि क्षमादिधर्मान् । यापयेन्निर्दोषेणैव पिण्डेन । भावयेज्जिनागमान् । सुस्थो भवेत्स्वाध्यायेन । परिपालयेत्पञ्चाचारान् । इत्थञ्च सर्वथाऽपि परस्तात् स्याल्लौकिकजीवनात् । एवं प्रविशेच्छ्रमणधर्मे । १४८ सर्वविरतिप्रतिज्ञया मनोवाक्कायैः कृतकारितानुमोदितैश्च सर्वसावद्ययोगप्रत्याख्यानं क्रियते । तयाऽनुप्रविशति समत्वे । त्यजति सावद्ययोगसक्तिम् । परिहरति रागादिप्रयुक्तं वैषम्यम् । त्रोटयति धनादिना सह सम्बन्धम् । अनुसन्धत्ते गुरुणा जिनाज्ञया संयमेन स्वाध्यायेन त्यागेन तपसा साध्वाचारेण च सह प्रतिबन्धम्। ततोऽपि पञ्चमहाव्रतोच्चारपुरस्सरं विशेषेण कुरुते पञ्चमहाव्रतसम्बन्धम् । तदेतस्मिन् जीवनेऽनुप्रवेशो नाम लोकोत्तरधर्मप्रव्रजनम् । (१४) अनुल्लङ्घनीया जिनाज्ञा सूत्र : एसा जिणाणमाणा महाकल्लाणत्ति न विराहिअव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिणा । ।। इति पव्वज्जागहणविहिसुत्तं समत्तं ।। आज्ञा ह्येषा जिनेश्वराणां यदुतैवं प्रव्रजितव्यम् । महाकल्याणकारिणी चैषा । अतो मोक्षाभिलाषी बुधः पुरुषो न विराधयेदेनाम्, महानर्थभयात् । जिनाज्ञाविराधनाद्धि दीर्घदुर्गतिभ्रमणाख्यमहाऽनर्थजन्म । न हि जिनाज्ञाविराधनादपि परः कश्चिदपराधः । नाप्यतः परः कश्चिदनर्थोऽपि ।
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy