________________
१४०
पञ्चसूत्रोपनिषद् तदानयाम्यहमनुज्ञापयतं माम् - इति विज्ञपयति पुत्रः । न च मोहवशादनुज्ञापयतः तौ. [ अस्तु मरणं मा भूत्तव वियोगः - इति । ततः किं कुर्यात् प्राज्ञः पुत्रः ? गच्छेदेवौषधार्थम् । एवं मातापितृपरिहारकृदप्येष वस्तुतस्तदत्यागी तत्प्रतिपालकश्च । औषधाऽऽनयनेनापनीय तद्रोगं तज्जीवनप्रयोजकभावात् । एवञ्च तत्त्याग एव पारमार्थिकोऽत्यागः । परमभक्तश्च पित्रोः स पुत्रः । अत्यागस्तु भवेत्तत्त्वतो त्यागः, पित्रोर्मरणनिबन्धनत्वात्। अपि च स्वयमपि म्रियेत वने क्षुधातुरः | परिणामेन हि निर्णीयते प्रवृत्तेः सदसद्भावः | परिणाममेव प्राधान्यमर्पयन्ति सूक्ष्मदृशः | सम्भवत्यत्रौषधाऽऽनयनेन मातापितृरक्षा, कालसहत्वात्तयोः | औषधार्थमगमने तु निश्चय एव मृत्योः । अतस्ताभ्यां वस्त्रादिजीविकां दत्त्वा तदौषधार्थमात्मनिर्वाहार्थं च गच्छेत् । एवं मातापितृपरिहारकोऽपि प्रशंसनीयः । औषधमानीय ताभ्यां जीवनमपर्येदिति सम्भवतीत्यत एवंविधमाचरणमेवोचितम् ।
(११) दृष्टान्तोपनयः सूत्र : एवं सुक्कपक्खिए महापुरिसे संसारकंतारपडिए अम्मा पिइसंगए धम्मपडिबद्ध विहरिज्जा । तेसिं तत्थ निअमविणासगे, अपत्तबीजाइपुरिसमित्तासज्झे, संभवंत सम्मत्ताईओसहे, मरणाइविवागे कम्मायंके सिआ । तत्थ से सुकपक्खिए पुरिसे धम्मपडिबंधाओ एवं समालोचिअ - "विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण । तस्स संपाडणे विभासा | कालसहाणि अ एआणि ववहारओ" |