________________
१३४
पञ्चसूत्रोपनिषद् अतो न विफलतां नेय एष मोक्षसाधनावसरः । विरक्तव्यं संसारात् । विचारणीयमत्र हनुमद्वैराग्यवृत्तान्तम् ।
(६) संसारस्वरूपम् सूत्र : विवरीओ अ संसारो इमीए, अणवट्ठिअसहावो । इत्थ खलु सुही वि असुही, संतमसंतं, सुविणुव्व सव्वमालमांलंति । ता अलमित्थ पडिबंधेणं ।।
मोक्षस्वरूपादत्यन्तं विपरीतमेतत्संसारस्वरूपम् । मोक्षे निरुपद्रवता, संसारस्तूपद्रवैकनिलयः । आस्तामन्योपद्रवगणवार्ता, जन्मोपद्रवोऽपि विडम्बनैव, अत एवोक्तम् - जरामरणदौर्गत्यव्याधयस्तावदासताम् । मन्ये जन्मापि धीरस्य, भूयो भूयस्त्रपाकरम् - इति । .
किञ्च स्थिरैकस्वभावो मोक्षः । संसारस्त्वनवस्थितस्वभावः | तथा ह्यत्र संसरन् जीवो मनुजो भूत्वा पशुर्भवति । नीरुग् भूत्वा रुग्णो भवति । बालो भूत्वा युवा वृद्धश्च भवति । परावर्त्ततेऽत्र वयः । परावर्त्ततेऽत्र स्वजनः । परावर्त्ततेऽत्र स्वभावः । प्राङ् मिष्टान्नाभ्यवहरणस्वभावः शूकरीभूय विष्टादनप्रकृतिर्भवति । परावर्त्ततेऽत्र हर्षादिर्भावोऽपि ।
किञ्च संसारे सुख्यप्यसुखी परमार्थतः, दुःखात्मकत्वात्तत्सुखस्य, चलत्वाच्च सुखपर्यायस्य, उक्तञ्च - परिणामाच्च तापाच्च संस्काराच्च बुधैर्मतम् । गुणवृत्तिविरोधाच्च, दुःखं पुण्यभवं सुखम् - इति (अध्यात्मसारे १८ -) दृश्यत एव दुःखपरिणामः सुखस्य, तथाहि - अस्तमेत्यारोग्यमुदेति च