SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पञ्चसूत्रोपनिषद् १२७ उल्लसत्यस्य कण्डकस्थानम् । प्राप्नोत्येष उत्तरोत्तरं विशुद्धमध्यवसायस्थानम् । एवमाराधयत्यसौ साधुधर्मपरिभावनाम् । इति द्वितीयं साधुधर्मपरिभावनासूत्रम् अथ तृतीयं सूत्रम् प्रव्रज्याग्रहणविधिः (१) परपीडापरिहारयत्नः सूत्र : परिभाविए साधुधम्मे जहोदिअगुणे, जइज्जा सम्ममेअं पडिवज्जित्तए अपरोवतावं परोवतावों हि तप्पडिवत्तिविग्घं । अणुपाओ खु एसो । न खलु अकुशलारंभओ हिअं । पूर्वसूत्रोक्तविधिना विधाय साधुधर्मपरिभावनामधिगतयथोदितगुणश्चारित्रधर्मावाप्त्यर्थं यतेत । अत्र यथोदितगुण इति संसारविरक्तो मोक्षाभिलाषी निर्ममो परानुपतापी निर्मलहृदय उत्तरोत्तरविशुद्ध्यमानभावश्च । परोपतापो हि धर्मप्राप्त्यन्तरायभूतः, नैष धर्माधिगमोपायः । धर्मप्राप्तिप्रयत्नोऽपि चेत् परपीडाजनकस्तदा सोऽकुशलः । आस्तां गृहादिप्रयोजनेन परोपतापः, धर्मार्थमपि परोपतापोऽशुभ इत्याकूतम् । न चाशुभयत्नेन हितमभूत्कस्यापि । अतः परिहर्त्तव्यः परसन्तापः । (२) मातापितृप्रतिबोध: सूत्र : अप्पडिबुद्धे कहिंचि पडिबोहिज्जा अम्मापियरे । उभयलोगसफलं जीविअं, समुदायकडा कम्मा समुदायफलत्ति । एवं सुदीहो अविओगो ।
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy