SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १२४ पञ्चसूत्रोपनिषद् प्रभवन्त्यस्मिन्, अनिवारणीयत्वात् । नैष शृणोति कस्यचित् क्षणप्रतीक्षाविज्ञप्तिम् । हसतीव सहसा धर्मकरणाभिलाषम् । अपहरति विवशतया रुदन्तम् । न च सकृदेवागच्छत्यसौ, अपि तु प्रतिभवम्, अतः पुनः पुनरनुबन्धी मृत्युः । जातस्य हि ध्रुवो मृत्युरिति । यावद्धि रागरोषौ मनोवाक्कायप्रवृत्तिश्च, तावज्जन्म, तावच्च मृत्युः । अतस्त्रोटनीया रागद्वेषतन्तवः | विजेतव्यं च मरणम् । . सूत्र : धम्मो एअस्स ओसहं, एगंतविसुद्धो, महापुरिससेविओ, सव्वहिअकारी निरइआरो परमाणंदहेऊ । __ धर्मो हि पुनः पुनर्मृत्युभावनिरोधकः । अत एव. धर्मो मृत्युलक्षणदारुणरोगोपशमनौषधम् । अतोऽभीक्ष्णं सेवनीय एषः । अव्रतैर्विषयैश्च मोहितोऽयं जीवः । अत एव क्षीणं तन्निकारगोचरमात्मसामर्थ्यम् । तदत्र धर्माराधनैवोपायः । नवरमेकान्तनिर्मले धर्मे यतनीयम् । धर्मोऽपि कषच्छेदतापपरीक्षोत्तीर्ण एव मृग्य इति हृदयम् । धर्मेण हि परमनिवृत्तिरूपेण भाव्यम् । यत्र हिंसाद्यविरतेः सर्वथा परिहार:, स धर्मः परमनिवृत्तिरूपः | यो धर्मस्तीर्थकर-चक्र्यादिमहापुरुषनिषेवितः, मैत्रीकारुण्यादिवासितः, सर्वहितः, परमानन्दप्रदः, प्रशमसुखहेतुश्च, स आराधनीयः सर्वातिचारपरिहारेण । एष एव भवति मरणरुगौषधम् । सूत्र : नमो इमस्स धम्मस्स | नमो एअधम्मपगासगाणं | नमो एअधम्मपालगाणं | नमो एअधम्मपरूवगाणं । नमो एअधम्मपवज्जागाणं ।
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy