SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ११८ पञ्चसूत्रोपनिषद् त्रिलोकबन्धुः समुपचितपुण्यसम्भारः परमकारुणिको विशिष्टतथाभव्यत्वबलोपार्जिततीर्थकृन्नामपुण्यो विश्वविश्वसत्त्वगोचरागण्यकारुण्यपुण्यः सर्वश्रेष्ठसम्यक्त्वादिलक्षणबोधिविभूषितः सम्यक् सम्बुद्धो भगवानहन् सत्त्वविशेष इति । । । (१४) भावमङ्गलम् .. सूत्र : एवं समालोचिअ, तदविरुद्धेसु समायारेसु सम्म वट्टिज्जा, भावमंगलमेअं तन्निप्फत्तीए । एवं सम्यग् विचार्य तीर्थकृद्वचनं सत्प्रणिधानपुरस्सरं यथा सम्यक्त्वादिधर्मस्थानान्यविरुद्धानि स्युस्तथा यतितव्यम् । अविरुद्धानीति जिनवचनाबाधकानि तदनुगुणानीति यावत् । विधिसचिवं हि धर्माचरणमुपयाति भावमङ्गलताम् । ननु च शुभाध्यवसायो भावमङ्गलमित्युच्यते । अत्र त्वहिंसादिसत्कसविधिप्रवर्त्तनस्य तत्त्वमुक्तम्, अतः किमत्र वस्तुस्वरूपमिति चेत् ? अत्रोच्यते । साधुधर्मपरिभावनासत्कं सविधि प्रवर्त्तनमुत्तमाचारोधैर्निषेव्यते । तत्सिद्धौ च सिध्यति प्रशस्तपरिणामः । अतस्तदात्मके भावमङ्गलेऽवन्ध्यनिबन्धनतां व्रजत्युक्ताचारप्रवृत्तिः । इत्थञ्च तस्यामपि तद्व्यपदेशो न्यायानपेतः । यद्यप्यन्तरं विद्यत एव दुग्धघृतयोः । तथापि पारम्पर्येण हेतुफलभावोऽविगानेनाभिमतस्तयोर्विदुषाम् । एवम्प्रकृतेऽपि दृष्टव्यम् । विध्यादृतिस्त्वत्रात्यन्तमावश्यकेति ध्येयम्. । न हि व्रतानुपालनमात्रं पूर्वोक्ताऽऽगमग्रहणाधर्ममित्रत्यागकल्याण
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy