________________
पञ्चसूत्रोपनिषद् तदधिगमोपायान्, शिक्षते तत्साफल्यप्रयोजकविधिम् । एवं जिनाज्ञाभावनेऽपि यतनीयम् । एवं च जिन एव सततं व्यवस्थितो भवेदृष्टिपथि, न तु संसारः । ततश्च गृहादिकार्येष्वप्यन्वेत्यागमानुसारी विमर्शः । सदोदयमाप्नुयादाश्रवसंवरविवेकमतिः । निमीलनं भवेन्मोहदृशः | उन्मीलिता स्याज्ज्ञानदृक् । एवञ्च निरोधो भवेद्व्यर्थ कर्मबन्धस्य कुवासनादृढीकरणस्य च । सञ्चीयन्त एवं सुसंस्कारा आत्मनि । परिभाव्यते सम्यक् साधुधर्मः । आज्ञाग्रहणभावनाविरहे त्वाश्रवादिविवेकाभावाद् भवेत् संवरस्थानेऽपि पापप्रवृत्तिः । यथा रसवतीभाजनपिधानक्रियायाः समानत्वेऽपि जिह्वालाम्पट्यप्रयुक्ता सैव क्रियाऽऽश्रवेऽन्तर्भवति, जीवदयाऽऽशयेन तु सैव संवर इति । अत उन्मीलनीया ज्ञानदृक् । कर्त्तव्यं मिष्टान्नाऽऽस्वादेषु मोहशस्त्रीप्रहारावलोकनम् । निभालनीयं हीरकादिकं सारद्रव्यं रागनागदारुणदंशनिबन्धनम् । कर्त्तव्यं विषयेष्वात्मगुणविस्मारणकृत्त्वविलोकनम् ।
एवमाज्ञानुचिन्तनानन्तरं भवेदेवाऽऽज्ञापारतन्त्र्यानुरागः सचेतसः । ततश्च यततेऽसावागमाभिहितेष्वौचित्यादियोगेषु धार्मिकानुष्ठानेषु । दधात्येतद्गोचरः पक्षपातः । धारयति जिनाज्ञायां भावप्रतिबन्धनम् ।
सूत्र : आणा हि मोहविसपरममंतो, जलं रोसाइजलणस्स, कम्मवाहितिगिच्छासत्थं, कप्पपायवो सिवफलस्स ।
ननु किन्निबन्धनमिदं जिनाज्ञामाहात्म्यम् ? येन तच्छ्रवणादेरेवमुपादेयत्वातिशय इति चेत् ? अत्रोच्यते । जिनाज्ञा