SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ८० पञ्चसूत्रोपनिषद् यावत् । न ह्येवंविधप्रशस्तप्रार्थनात्मिका संवित्तिर्निदानमित्यलं प्रसङ्गेन । सूत्र : अपडिबंधमेअं असुहभावनिरोहेण सुहभावबीअं ति सुप्पणिहाणं सम्मं पढिअव्वं, सम्मं अणुपेहिअव्वं ति । नमो नमिअनमिआणं परमगुरूवीअरागाणं । नमो सेसनमुक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा, सुहिणो भवन्तु जीवा । अत्र सूत्रपरिसमाप्तौ चरमं मङ्गलमाह देवैरपि वन्दिता इन्द्रा गणधरमहर्षयश्च यं नमस्कुर्वते, तं परमगुरुं वीतरागपरमात्मानं नमोऽस्तु । अन्यानपि नमस्कारयोग्यान् गुणाधिकान् नमस्कारो भूयात् । निराकृत्य मिथ्यादर्शनानि जयतु सर्वज्ञशासनम् । मिथ्यात्वदोषापाकरणपुरस्सरं वरबोधिलाभावाप्त्या - सम्यग्दर्शनादि शुद्धधर्मावाप्त्या सन्तु प्राणिनः सुखिनः । सन्तु प्राणिनः सुखिनः । सन्तु प्राणिनः सुखिनः । एवं पापप्रतिघातेन - अकुशलानुबन्धाश्रवव्यवच्छेदेन गुणबीजाधानम्, भावतः प्राणातिपातविरमणमिति तन्न्यासः । तथाऽनुबन्धतोविचित्रविपाकवत्कर्माधानमित्यर्थः । एतत्सूचकं सूत्रं पापप्रतिघातगुणबीजाथानसूत्र समाप्त
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy