SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ६८ पञ्चसूत्रोपनिषद् समानं फलं भवत्यनुष्ठानकरण-कारणा-ऽनुमोदनानाम्, अनन्तकालीनानन्ततीर्थकृतां दुष्करधर्मानुष्ठाने किंन्नामास्माकं सामर्थ्यम् ? तथाप्यासाद्यते तदनुमोदनेन तथाविधो गुणः । अर्हद्नुष्ठानानि - श्रेष्ठमप्रमादभावसचिवः संयमः, उग्रविहारः, घोरं तपः, प्रचण्डः परीषहजय, दारुणोपसर्गेष्वपि निर्भयत्वम्, लोकोत्तरा सहिष्णुता, कर्मपीडितजगदुत्तारणोपदेशः, अतिचिन्तामणिश्रुतसम्यक्त्वदेशविरतिसर्वविरतिवितरणम् । धन्यं खलु जीवनमर्हतः, अहो महत्यस्य प्रवृत्तिः । अनन्तानामर्हतामनन्तानामनुष्ठानानाम् । अहो लोकोत्तरा तेषाम्प्रवृत्तिः । अहो मादृशानां दीनानां महानसावुपकारकः । न ह्येष्वेकतममपि अनुष्ठानमाचरितुं समर्थोऽस्मि । तथाऽपि मदहोभाग्यम्, यदुत्तमान्यनुष्ठानानि ममावगमगोचरीभूतानि । प्राप्ता मया प्रमोदभावना । अधिगतं मया तदनुमोदनम् । करण-कारणा-ऽनुमोदनानि समानफलानि । तान्येव धर्मसाधनमार्गरूपाणि । अत्र तृतीयोपायरूपाऽनुमोदना भावसारेण हृदयेन गद्गद्स्वरेण सम्भ्रमबहुमानपुरस्सरं तत्तदनुष्ठानमनोरथसचिवा च क्रियमाणा स्यादेव तदनुष्ठानफलप्रदा । अनुष्ठानमनुसरन्मोदनमानन्दो हि अनुमोदनम् । अतस्तेनोद्विज्यते संयमादिप्रतिपक्षभूतेभ्यो दोषेभ्यः क्रियते दृढोपादेयमतिः संयमाद्यनुष्ठानगोचरा । " सिद्धानां सिद्धावस्था नामाव्याबाधा स्थितिः, अनन्तं शश्वत्सुखम्, अरूपित्वं स्फटिकवन्निष्कलङ्कं शुद्धं स्वरूपम्, अनन्तं ज्ञानं दर्शनं च । अनुमोदयाम्येतत्सर्वम् । अहो
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy