________________
६६
सटीक श्रावकप्रज्ञप्त्याख्यप्रकरणं ।
जे नियमवेयणिज्जस्स उदयओ होन्ति, तह कहं तेउ वज्जिज्जंति इह खलु, सुद्धेणं जीवविरिएणं ॥१००॥ [ ये नियमवेदनीयस्योद्यतो भवन्ति तथा कथं पुनस्ते । वर्जन्ते इह खलु शुद्धेन जीववीर्येण ॥ १०० ॥ ]
स्यादेतत् ये शङ्कादयो नियमवेदनीयस्य ज्ञानावरणादेरुदयतो भवन्ति, तथा तेन प्रकारेण कथं पुनस्ते वर्जन्ते इह प्रक्रमे प्रस्तावे, खलुशब्दादन्यत्रापि चारित्रादौ तत्कर्मणो अफलत्वप्रसङ्गात्, इति आशङ्कयाह, शुद्धेन जीववीर्येण कथंचित्प्रादुर्भूतेन प्रशस्तेनात्मपरिणामेनेति ॥ अमुमेवार्थं समर्थयन्नाह ॥
कत्थइ जीवो बलीओ, कत्थइ कम्माइ हुंति बलियाई । जम्हा णंता सिद्धा, चिट्ठेति भवंमि वि अनंता ॥१०१॥ [ क्वचित् जीवो बलीकः क्वचित्कर्माणि भवन्ति बलवन्ति । यस्मादनन्ताः सिद्धाः तिष्ठन्ति भवेऽप्यनन्ताः १०१]
कचिज्जीवो बली स्ववीर्यतः क्लिष्टकर्माभिभवेन सम्यग्दर्शनाद्यवाया अनन्तानां सिद्धत्वश्रवणात्, क्वचित्कर्माणि भवन्ति बलवन्ति यस्मादेवं वीर्यवन्तोऽपि ततोऽनन्तगुणाः कर्मानुभावतः संसार एव तिष्ठन्ति प्राणिन इति, तथा चाह, यस्मादनन्ताः सिद्धास्तिष्ठन्ति भवेऽप्यनन्ता इति एतदेव प्रकटयति ।
अच्चंतदारुणाई कम्माई खवित्तु जीवविरिणं । सिद्धिमणंता सत्ता पत्ता जिणवयणजणिएणं ॥ १०२ ॥