SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञत्याख्यप्रकरणं। षयैव । तत्त्वतस्तु सर्व एते प्रायो मिथ्यात्वमोहनीयोदयतो भवन्तो जीवपरिणामविशेषाः सम्यक्त्वातिचारा उच्यन्ते । न सूक्ष्मेक्षिका अत्र कार्येति । अथवा विचिकित्सा विद्वद्जुगुप्सा । विद्वांसः साधवो विदितसंसारस्वभावाः परित्यक्तसर्वसङ्गास्तेषां जुगुप्सा निन्दा । तथाहि तेऽस्तानात्प्रस्वेदजलक्लिन्नमलिनत्वात् दुर्गन्धवपुषो भवन्ति तान्निन्दति । को दोषः स्याद्यदि प्राशुकेन वारिणाङ्गप्रक्षालनं कुर्वीरन् भगवन्त इति । इयमपि न कार्या। देहस्यैव परमार्थतोऽशुचित्वादिति ॥ परपाषंडपसंसा सक्काइणमिह वन्नवाओ उ। तेहिं सह परिचओ जो स संथवो होइनायबो॥॥ [परपाषंडप्रशंसा शाक्यादीनामिह वर्णवादस्तु । तैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः ८८] परपाषण्डानां सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तानांप्रशंसेति समासः प्रशंसनं प्रशंसा स्तुतिरित्यर्थः । तथा चाह । शाक्यादीनामिह वर्णवादस्तु । शाक्यारक्तभिक्षवआदिशब्दात्परिव्राजकादिपरिग्रहः। वर्णवादःप्रशंसोच्यते पुण्यभाज एते सुलब्धमेभिर्मानुजं जन्म दयालव एत इत्यादि ॥ तैः परपाषण्डैरनन्तरोदितैः सह परिचयो यः स संस्तवो भवति ज्ञातव्यः परपाषण्डसंस्तव इत्यर्थः संस्तव इह संवादजनितः परिचयः संवसनभोजनालापादिलक्षणः परिगृह्यते न स्तवरूपः तथा च लोके प्रतीत एव संपूर्वः स्तौतिः परिचय इति " असंस्तुतेषु प्रसभं भयेषु" इत्यादौ इति ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy