________________
३०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। . घुदीर्णक्षयादनुदीर्णोपशमव्यतिरेकेणास्य भावः क्रोधादिपरिणामः पुनरुपधानसामर्थ्यापादितस्फटिकमणिरक्ततावदसहज इति । आह यदि परिणामः सम्यक्त्वं ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते मोहनीयभेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात्, न विरुध्यते तथाविधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् । कृतं विस्तरेणेति । क्षायोपशमिकानन्तरमौपशमिकमाह । उवसमगसेढिगयस्स होइ उवसामियं तु सम्मतं ।
जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्म४५ उपशमकश्रेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् । यो वा अकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वोलभते सम्यक्त्वम्
उपशमकश्रेणिगतस्य औपशमिकी श्रेणिमनुप्रविष्टस्य भवत्यौपशमिकमेव सम्यक्त्वं तुरवधारणे अनन्तानुबन्धिनां दर्शनमोहनीयस्य चोपशमेन निवृत्तमिति कृत्वा औपशमिकं । यो वा अकृतत्रिपुञ्जस्तथाविधपरिणामोपेतत्वात्सम्यमिथ्यात्वोभयानिवर्तितत्रिपुञ्ज एव अक्षपितमिथ्यात्वो ऽक्षीणमिथ्यात्वदर्शनः क्षायिकव्यवच्छेदार्थमेतत् लभते प्राप्नोति सम्यक्त्वं तदप्यौपशमिकमेवेति । अमुमेवार्थ स्पष्टयन्नाह ।
खीणमि उइन्नंमि अ अणुइजते अ सेसमिच्छते॥ अंतोमुत्तमितं उवसमसम्मं लहइ जीवो॥४६॥