SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ २१० सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । [एवं अप्रतिपतितगुणानुभावतः बन्धहासभावात् । प्राक्तनस्य च क्षयात् शाश्वतसौख्यो ध्रुवो मोक्षः ३८९ एवमुक्तेन प्रकारेण अप्रतिपतितगुणानुभावतः सततसमवस्थितगुणसामर्थ्येन बन्धहासात्प्रायो बन्धाभावादित्यर्थः प्राक्तनस्य च बन्धस्य क्षयात्तेनैव सामर्थ्येन एवमुभयथा बन्धाभावे शाश्वतसौख्यो ध्रुवो मोक्षोऽवश्यंभावीति एतदेव सूत्रान्तरेण भावयन्नाह समतमि य लद्धे पलियपहुतेण सावओ हुज्जा। चरणोवसमखयाणं सागरसंखंतरा हुंति ॥ ३९०॥ [सम्यक्त्वे च लब्धे पल्योपमपृथक्त्वेन श्रावको भवति । चरणोपशमक्षयाणां सागराणि संख्येयान्यन्तरं भवन्ति सम्यक्त्वे च लब्धे तत्वतः पल्योपमपृथक्त्वेन श्रावको भवति एतदुक्तं भवति यावति कर्मण्यपगते सम्यक्त्वं लभ्यते तावतो भूयः पल्योपमपृथक्त्वेऽपगते देशविरतो भवति पृथक्त्वं द्विःप्रभृतिरानवभ्य इति क्लिष्टेतरविशेषाच्च व्यादिभेद इति चरणोपशमक्षयाणामिति चारित्रोपशमश्रेणिक्षपकश्रेणीनां सागराणीति सागरोपमाणि संख्येयान्यन्तरं भवन्ति एतदुक्तं भवति यावति कर्मणि क्षीणे देशविरतिरवाप्यते तावतः पुनरपि संख्येयेषु सागरोपमेष्वपगतेषु चारित्रं सर्वविरतिरूपमवाप्यते एवं श्रेणिद्वये भावनीयमिति एवं अप्परिवडिए संमते देवमणुयजमेसु । , अन्नयरसेढिवजं एगभवेणं च सवाई ॥ ३९१ ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy