SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । २०३ तस्मिन्नपि एवंभूते प्रणिधाने कृते सति वन्दनं निवेदयितव्यमेव वस्तुतः संपादितत्वात्तदभाव तथाविधप्रणिधानाकरणे प्रमादा तोर्दोषो भणितो जिनेन्द्रविभागायातशक्यकुशलाप्रवृत्तेरिति उपसंहरन्नाह एवं सामायारिं नाऊण विहीइ जे पउंजंति । ते हुंति इन्थ कुसला सेसा सब्जे अकुसला उ ३७५ [एतां सामाचारी ज्ञात्वा विधिना ये प्रयुंजते । ते भवन्त्यत्र कुशलाः शेषाः सर्वे अकुशला एव ३७६] एतामनन्तरोदितां सामाचारी व्यवस्थां ज्ञात्वा विधिना ये प्रयुंजते यथावये कुर्वन्तीत्यर्थः ते भवन्त्यत्र विहरणविधौ कुशलाः शेषा अकुशला एवानिपुणा एव न चेयमयुक्ता संदिष्टवन्दनकथनतीर्थस्नपनादिदर्शनादिति श्रावकस्यैव विधिशेषमाह अन्ने अभिग्गहा खलु निरईयारेण हुंति कायञ्चा। घडिमादओवियतहाविसेसकरणिज्जजोगाओ३७६ [अन्ये चाभिग्रहाः खलु निरतिचारेण भवन्ति कर्तव्याः। प्रतिमायोऽपि च तथा विशेषकरणीययोगात् ॥३७६॥ अन्ये चाभिग्रहाः खलु अनेकरूपालोचकृतघृतप्रदानादयःनिरतिचारेण सम्यक् भवंति कर्तव्या आसेवनीया इति प्रतिमादयोऽपि च तथा शेषकरणीययोगा इति प्रतिमा दर्शनादिरूपा यथोकं “दसणवये"त्यादि आदिशब्दादनित्यादिभावनापरिग्रह इति ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy