SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञस्याख्यप्रकरणं। २०१ [तेऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। अवनामित्तोत्तमांगाः तद् बहु मन्यन्ते शुभध्यानाः३६९ तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपुटाञ्जलयः श्रद्धासंवेगपुलकितशरीराः श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषो ऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः प्रशस्ताध्यवसाया इत्युभयोः फलमाह तेसिं पणिहाणाओ इयरेसि पि य सुभाउ झाणाओ। पुन्नं जिणेहिं भणियं लो संकमउ ति ते मेरा ३७० [तेषां प्रणिधानात् इतरेषामपि च शुभाद्ध्यानात् ।। पुण्यं जिनैणितं न संक्रमतः इति अतो मर्यादा ३७० तेषामाद्यानां वन्दननिवेदकानां प्रणिधानात्तथाविधकुशलचित्तादितरेषामपि च वन्द्यमानानां शुभध्यानात्तच्छ्रवणप्रवृत्त्या पुण्यं जिनर्भणितं अर्हद्भिक्तं न च संक्रमत इति न निवेदकपुण्यं निवेद्यसंक्रमेण यतश्चैवमतो मर्यादेयमवश्यं कार्येति । विपयये दोषमाह। जे पुणऽकयपणिहाणा वंदिता नेव वा निवेयंति । पच्चक्खमुसावाई पावा हु जिणेहिं ते भणिया ३७१ [ये पुनरकृतप्रणिधाना वंदित्वा नैव वा निवेदयन्ति । प्रत्यक्षमृषावादिनः पापा एव जिनैः ते भणिताः ३७१ ये पुनरनाभोगादितो अकृतप्रणिधाना वंदित्वा नैव वा वन्दित्वा निवेदयन्ति अमुकस्थाने देवान्वन्दिता यूयमिति प्रत्यक्ष
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy