SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । च्छेदादायुष्कमेव गृह्यते अस्ति च विच्छेदो मिथ्यात्वादिषु । तथा गत्यादिशुभाशुभनमनान्नामयतीति नाम । तथा गां वाचं त्रायत इति गोत्रं रूढिषु हि क्रिया कर्मव्युत्पत्त्यर्था नार्थक्रियार्था इत्युच्चैआवादिनिबन्धनमदुष्टमित्यर्थः । चरमं पुनः पर्यन्तवति तत्पुनरन्तरायं भवति दानादिविघ्नोऽन्तरायस्तत्कारणमन्तरायमिति । मूलप्रकृतय एताः सामान्यप्रकृतय इत्यर्थः उत्तरप्रकृतीरेतद्विशेपरूपा अतो वक्ष्ये अत ऊध्वर्मभिधास्य इति ॥ क्रमप्रयोजनं प्रथमगुणघातादि यथा कर्मप्रकृतिसंग्रहण्यामुक्तं तथैव द्रष्टव्यं ग्रन्थविस्तरभयाद्वस्तुतोऽप्रक्रान्तत्वाच्च न लिखितमिति । तथा पढमं पंचवियपं मइसुयओहिमणकेवलावरणं। बीयं च नववियप्पं निदापण दसणचउकं ॥१२॥ प्रथमं पञ्चविकल्पं मतिश्रुतावधिमनाकेवलावरणम् । द्वितीयं च नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कम् ॥१२॥ इह सूत्रक्रमप्रामाण्यात्प्रथममाद्यं ज्ञानावरणं पञ्चविकल्पमिति पञ्चभेदं । तानेव भेदानाह । मतिश्रुतावधिमनःकेवलावरणं मतिज्ञानाद्यावरणमित्यर्थः । द्वितीयं च दर्शनावरणं नवविकल्पं निद्रापञ्चकं दर्शनचतुष्कं चेति । निद्रापञ्चकमाह । निद्दा निद्दानिद्दा पयला तह होइ पयलपयला य । थीणद्धी अ सुरुद्दा निद्दापणगं जिणाभिहियं ॥१३॥ निद्रा निद्रानिद्रा प्रचला तथा भवति प्रचलाप्रचलाच । स्त्यानडैिश्च सुरुद्रा निद्रापञ्चकं जिनाभिहितम् ॥१३॥ निद्रादीनां स्वरूपम् ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy