SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५८ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । घरे हाय नत्थि ताहे तेल्लामलएहिं सीसं घसित्ता सबै साडविऊण ताहे तलागाईणं तडे निविट्ठो अंजलीहिं हाइ एवं जेसु य पुष्फे पुण्फकुंथू ताणि परिहरइ " ॥ ५ ॥ उक्तं सातिचारं तृतीयगुणत्रतं गुणवतानन्तरं शिक्षापदत्रतान्याह तानि चत्वारि भवन्ति तद्यथा । सामायिक देशावकाशिकं पौषधोषवासः अतिथिसंविभागश्चेति तत्राद्यमाह ॥ सिकापयं च पढमं सामाइयमेव तं तु नायनं । सावज्जेयरजोगाण वज्जणासेवणारूवं ॥ २९२ ॥ [ शिक्षापदं च प्रथमं सामायिकमेव तत्तु ज्ञातव्यम् । सावद्येतरयोगानां वर्जनासेवनारूपम् ॥ २९२ ॥ ] शिक्षा परमपदप्रापिका क्रिया तस्याः पदं शिक्षापदं तच्च प्रथममाद्यं सूत्रक्रमप्रामाण्यात्सामायिकमेव समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत्पश्यति आयो लाभः प्राप्तिरिति पर्यायाः समस्यायः समायः समो हि प्रतिक्षणमपूर्वैर्ज्ञानदर्शनचारित्रपर्यायैर्नि - रुपमसुखहेतुभिरधःकृतचिन्तामणिकल्पद्रुमोपमैर्युज्यते स एव समायः प्रयोजनमस्य क्रियानुष्ठानस्येति सामायिकं समाय एववा भवं सामायिकमिति शब्दार्थः एतत्स्वरूपमाह । तत्तु सामायिकं ज्ञातव्यं विज्ञेयं स्वरूपतः कीदृगिति आह सावद्येतरयोगानां यथासंख्यं वर्जनासेवनरूपमिति तत्रावद्यं गर्हितं पापं सहावद्येन सावद्यं योगा व्यापाराः तेषां वर्जनारूपं परित्यागरूपमित्यर्थः कालावधिनैवेति गम्यते मा भूत्सावद्ययोगपरिवर्जनामात्रमपाप
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy