SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकज्ञप्त्याख्यप्रकरणं। १३३ त्तिमाह अत एवानिवृत्तेः प्रवृत्तेः कुलादिवैरवन्नियमेनावश्यतयेति । दृष्टान्तं व्याचिख्यासुराह ॥ जेसि मिहो कुलवेरं अप्पडिविरईउ तेसिमन्नोन्नं । वहकिरियाभामिविन तं सयं चेव उवसमइ॥२४९॥ [येषां मिथः कुलवैरं अप्रतिविरतेः तेषामन्योऽन्यम् । वधक्रियाभावे ऽपि न तत्वयमेवोपशाम्यति ॥२४९॥] येषां पुरुषाणां मिथः परस्परं कुलवैरमन्वयासंखटं अप्रतिविरतेः कारणात्तेषां अन्योन्यं परस्परं वधक्रियाभावे ऽपि सति न तत्स्वयमेवोपशाम्यति किं तूपशमितं सदिति ततो य तन्निमितं इह बंधणमाइ जह तहा बंधो। सन्वेसु नाभिसंधी जह तेसुं तस्स तो नत्थि ॥२५०॥ [ ततश्च तन्निमित्तं इह बन्धनादि यथा तथा बन्धः । सर्वेषु न अभिसंधिः यथा तेषु तस्य ततो नास्ति २५०] ततश्च तस्मादनुपशमात्तन्निमित्तं वैरनिबन्धनमिह बंधनादि बंधवधादि यथा भवति तेषां, तथेतरेषामनिवृत्तानां तन्निबन्धनो बन्ध इति अत्राह सर्वेषु प्राणिषु नाभिसंधियापादनपरिणामो यथा तेषु द्रंगनिवासिषु वैरवत इति तस्य प्रत्याख्यातुस्ततो नास्ति बन्धः इति तथाहि ते ऽपि न यथादर्शनमेव प्राणिनां बंधादि कुर्वन्ति किंतु वैरिद्रंगनिवासिनामेव एवं प्रत्याख्यातुरपि न सर्वेषु वधाभिसंधिरिति तद्विषये बंधाभाव इति । एतदाशंक्याह
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy