SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। [अथ तत्वयमेव तकःक्षपयति इतरपि किं न एवमेव। कालेन क्षपयत्येव उपक्रमः क्रियते वधेन ॥ १५२ ॥] अथैवं मन्यसे तत्पुण्यं स्वयमेव तक आत्मनैवासौ सुखितः क्षपयत्यनुभवेनैव वेदयतीत्येतदाशङ्कयाह इतरदपि पापं किं न एवमेव किं न स्वयमेव दुःखितः क्षपयति क्षपयत्येवेत्यर्थः । अ. थैवं मन्यसे कालेन प्रदीर्घेण क्षपयत्येव नानान्यथाभाव उपक्रमः क्रियते वधेन तस्यैव प्रदीर्घकालवेद्यस्य पापस्य स्वल्पकालवेद्यत्वमापाद्यते व्यापत्तिकरणेनेति एतदाशङ्कयाह । इयरस्स किं न कीरइ सुहीण भोगंगसाहणेणेवं। न गुण ति तंमि खविए सुहभावो चेव ततुति १५३ [इतरस्य किं न क्रियते मुखिना भोगाङ्गसाधनेन एवं । न गुण इति तस्मिन् क्षपिते सुखभावादेव तदिति १५३ ] इतरस्येति पुण्यस्य किं न क्रियते उपक्रमः सुखिनां भोगाङ्गसाधनेन काश्मीरादेः कुंकुमादिसंपादनेन। अथैवं मन्यसे एवमुपक्रमद्वारेण न गुण इति तस्मिन्पुण्ये क्षपिते कुतः सुखभावादेव तत् इति ततः पुण्यात्सुखस्यैव प्रादुर्भावादिति एतदाशङ्कयाह । निरुवमसुको मुको नय सइ पुन्ने तओ ति किंन गुणो। पावोदयसंदितो इयरंमि उ निच्छओ केण ॥ १५४॥ [निरुपमसौख्योमोक्षानच सति पुण्ये तक इति कथं नगुणः पापोदयसंदिग्ध इतरस्मिन् तु निश्चयः केन ॥ १५४ ॥] निरुपमसौख्यो मोक्षः सकलाबाधानिवृत्तेरुभयसिद्धत्वान्न च
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy