________________
चेतोदूतम्.
२६ साक्षालक्ष्मीमित्र वर सखे ! तां प्रसत्तिं प्रसन्नै
वक्तुं धीरस्तनितवचनैर्भामिनी प्रक्रमेथाः ॥ १०९ ॥ प्राणाधारस्त्वमसि दयिते ! तद्विना सङ्गमं ते ।
प्रत्यर्थीव व्यथयति भृशं मेघपूरः कृशं माम् । पाथोदः किं ग्लपयतितमां नो कुलान्यध्वगानां
मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥११०॥ निस्संबन्धं हितकरतया विभ्रता मित्रभावं ___ केनाप्येषाऽखिलसुखकरी ढौकिता भाग्ययोगात् । त्वद्वार्ताऽपि प्रथयति ममामन्दसंमोदलक्ष्मी ____ कान्तोदन्तः सुहृदुपनतः सङ्गमात् किञ्चिदूनः ॥१११॥ रात्रौ यद्वद्भवति विरहाच्चक्रवाकोऽतिशोका
क्रान्तस्वान्तोऽहकमपि तथा सर्वथाऽप्यस्मि दुःखी । कान्ते ! तन्मे न खलु हृदये सौख्यलेशः कदाचित्
सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥११२॥ त्वद्योगायाऽभिमतफलदां श्रीगुरूणां सपर्या
यो निर्मातुं विनयविधिना स्पष्टमिच्छेत्प्रहृष्टः ।
१ वरसखे' इति व्यस्तं पदद्वयम्; समस्तत्वेन हि मन्यमानेऽस्मिन् समासान्तटप्रत्यय आपद्येत । २ मे मम अघपूर :, पापसमूहः; प्रसत्तेश्च दयितात्वेन सूचितायाः संगम विना मेघकृतं व्यथनं युक्तमेव । ३ अहम् । अहकमिति अकजन्तं रूपम् ॥