SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ २० चेतोदूतम्. कारुण्येनोपदिशति हितं निर्विशेष समेषां तत्त्वज्ञेऽपि त्वयि सति जगत्तारणकप्रवीणे । . धिग् व्यामोहं कतिचन परे भ्रान्तचित्ता वधूभि बंद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ८१ ॥ चिन्तातीताखिलसुखकरीं त्वत्प्रसतिं दुरापां प्राप्य स्वर्ग परिमितसुखं कः समीहत विद्वान् । यद्यप्यत्र त्रिदशतरुणीकामितं सर्वदैवा ऽप्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ८२ ॥ . ये मोहान्धा घनधनमदावेशनश्यद्विवेका मन्दायन्ते तव पदयुगोपासने भाग्यलभ्ये । दुःखं प्राप्स्यन्त्युपनतजराद्यामदस्ते नृणां किं वित्तेशानां न खलु च वयो यौवनादन्यदस्ति।।८३॥ एषा योषा जगति कुगतिद्वारमेवं विदित्वा येन त्यक्ता रज इव परब्रह्मलक्ष्मीरतेन जेतुं तं त्वां प्रभवति कथं चित्तभूहन्त ! यस्मा___तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ८४ ॥ स्निग्धच्छायः सुपरिकरितः साधुपात्रैरमात्रै मङ्गल्यश्रीरभिमतफल श्लाघनीयस्त्वमेव । विश्रामार्थ जगति विधिना निर्मितः शर्महेतु हस्तपाप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ८५॥ १ सर्वेषाम् ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy