SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ १८ चेतोदूतम्. प्रत्यादिष्टाभरणरुचयश्चन्द्रे हासव्रणाः ॥ ७२ ॥ त्रिभिर्विशेषम् । चेतोरङ्गे दृढतमगुणे सन्मतिर्न र्त्त की यं त्वच्छिष्याणां परमनिपुणा नृत्यति स्फुर्तियुक्ता । इष्टानर्थान् समभिलषतां शास्त्रतत्त्वोपदेशे त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ७३ ॥ विश्वस्वामिन्ननुपमगुणैस्तीर्थकुतुल्यता ते प्रज्ञोन्मेषे सति तनुमतां व्यज्यते व्यक्तमेव । यद्वत्तैस्तैर्गतिरभसतः स्रस्तपुष्पादिभावै शो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥७४॥ ( यद्वा माद्यद्वादिव्रजमदतमःस्तोमनिर्नाशकस्यत्यन्तं मुक्तास्तमनविपदः सर्वदाप्तोदयस्य । चिह्न रात्रावपि हि विदितैस्त्वत्तापस्य सत्केनैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥७५॥ १ चन्द्रहासः खड्गः । २ त्वद्गम्भीरध्वनिरूपेषु पुष्करेषु वाद्यभाण्डेषु वाद्यमानेषु शिष्यहृदयरूपायां नाट्यशालायां सुबुद्धिरूपा नर्तकी नृत्यतीत्याशयः । ३ निशायां गमनविषयीकृत: कामिनीनां अभिसारिकाणां मार्गो यथा सूच्यते तथेति पूर्वार्धन संबन्ध: । ४ त्वत्प्रतापस्य रात्रिन्दिवं तथात्वेनैव वर्तमानस्य चिह्नः सूर्योदयेऽपि कामिनीनां रात्रिसंबन्धी एव मार्ग: सूच्यते इति संबन्धः ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy