SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चेतो दूतम् यद्वा-रक्तो देहेष्वपि च विविधैर्भोजनस्नानभूषासंस्काराद्यैर्गमयसि दिनान् किं मुधैव प्रमत्तः । नो जानीषे किमिति यदमी ग्रीष्मतोयाशयाभाः संपत्स्यन्ते कतिपयदिनस्थाहिंसा दशार्णाः || २६॥ येषामेवं रुचिरवचनैर्ज्ञाततत्रः प्रशान्त स्वान्तः साम्यामृतमनुपमं निर्वृतेरेकहेतुम् । भव्यो लोकः पिबति मुदितः स्वादु यद्वत्तृषार्त्तः सभ्रूभङ्गं मुखमिव पयो वेत्रवेत्याश्वलोमिं ॥ २७ ॥ त्रिभिर्विशेषकम् ॥ साक्षात्प्रख्यापयति परमैश्वर्य लीला विशेषो येषां भाग्यान्यनुपमतमैर्वैभवैरद्भुतानि । क्रीडाभूमीघर इव रतव्यञ्जकैर्नागराणा - मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २८ ॥ तापव्यापत्प्रशमनरताः कुर्वते निर्वृतिं ये सर्वेषामप्यविनयवतामाश्रितानां न चित्रम् । पुष्पादानेष्वपि हि सुखदः किं न मन्दारवृक्षश्छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २९॥ स्त्रीणां सङ्गो भवति महते दोषपोषाय येषां सम्यक् तत्त्वाधिगतमनसामेष एवोपदेशः । १ वेत्रवती नदी स्त्री च । चेत्रवत्याः स्त्रियः संभ्रूभङ्गं मुखमिव वेत्रवत्या नद्याञ्चलोर्मिपयः पिबति॥ २ सुरतसूचकैः (वैभवस्थानीयैः शिलावेश्मभिः) ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy