SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४४ धर्मसंग्रह भाग-५/द्वितीय अधिकार | श्लो-१२ प्रक्षिप्तघृतादिके तापके एकेन पूपकेन पूरितेन द्वितीयः पूपकादिः प्रक्षिप्तो निर्विकृतिरेव १, त्रयाणां घाणानामुपरि अप्रक्षिप्तापरघृतं यत्तेनैव घृतेन पक्वं तदपि २, तथा गुडधानाः ३, समुत्तारिते सुकुमारिकादौ पश्चादुद्धरितघृतेन खरण्टितायां तापिकायां जलेन सिद्धा लपनश्री 'लहिगटुं' इति प्रसिद्धम् ४, स्नेहदिग्धतापिकायां परिपक्वः पोततः ५, एतानि पक्वान्ननिर्विकृतिकानि मिलितानि च त्रिंशद्भवन्तीति ज्ञेयम् ३० । अर्थतासु च दशसु विकृतिषु मद्यमांसमधुनवनीतलक्षणाश्चतस्रो विकृतयोऽभक्ष्याः, शेषास्तु षट भक्ष्याः तत्र भक्ष्यासु विकृतिष्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिकसंज्ञं विकृतिप्रत्याख्यानेन संगृहीतम् आकाराः पूर्ववत् नवरं 'गिहत्थसंसट्टेणं' इति गृहस्थेन स्वप्रयोजनाय दुग्धेन संसृष्ट ओदनो दुग्धं च तमतिक्रम्योत्कर्षतश्चत्वार्यगुलानि यावदुपरि वर्त्तते तदा तद्दग्धमविकृतिः, पञ्चमाङ्गुलारम्भे तु विकृतिरेव अनेन न्यायेनान्यासामपि विकृतीनां गृहस्थसंसृष्टमागमोक्तं, यथा“खीरदहिंविअडाणं, चत्तारि अ अंगुलाइ संसट्ठ । फाणिअतिल्लघयाणं, अंगुलमेगं तु संसटुं ।।१।। महुपुग्गलरसयाणं, अद्धंगुलयं तु होइ संसर्ट । गुलपोग्गलनवणीए, अद्दामलगं तु संसर्से ।।२।।" [प्रवचनसारोद्धारे २२२-३] ति । अनयोर्व्याख्या-दुग्ध-दधि-मद्यानां चत्वार्यङ्गुलानि संसृष्टम् विकृतिर्न भवति, उपरि तु विकृतिरेवेत्यर्थः फाणितो द्रवगुडस्तेन तैलघृताभ्यां च मिश्रिते कूररोट्टिकादौ यद्येकमगुलमुपरि चटितं तदा न विकृतिः, मधूनि च पुद्गलानि च मांसानि तेषां रसैः संसृष्टम् अङ्गुलस्यार्द्ध संसृष्टं भवति, अङ्गुलार्द्धात् परतो विकृतिरेव, गुडपुद्गलनवनीतविषये एतैः संसृष्टमिति यावदा मलकम्, तुशब्दस्यावधारणार्थत्वादाज़्मलकमेव न विकृतिर्भवति आर्द्रामलकशब्देन पीलुवृक्षसम्बन्धी 'मुहुर' इत्युच्यते 'उक्खित्तविवेगेणं' इति उत्क्षिप्तविवेक आचाम्लवदुद्धत्तुं शक्यासु विकृतिषु द्रष्टव्यः, द्रवविकृतिषु तु नास्ति ‘पडुच्चमक्खिएणं' इति, प्रतीत्य सर्वथा रूक्षं मण्डकादिकमपेक्ष्य म्रक्षितं स्नेहितमीषत्सौकुमार्योत्पादनात् म्रक्षणकृतविशिष्टस्वादुतायाश्चाभावात् म्रक्षितमिव यद्वर्त्तते तत्प्रतीत्यम्रक्षितं म्रक्षिताभासमित्यर्थः । इह चायं विधिः-यद्यगुल्या तैलादि गृहीत्वा मण्डकादि म्रक्षितं तदा कल्पते निर्विकृतिकस्य, धारया तु न कल्पते व्युत्सृजति=विकृतिं त्यजतीत्यर्थः इह च यासु विकृतिषुत्क्षिप्तविवेकः सम्भवति तासु नवाकाराः, अन्यासु द्रवरूपास्वष्टौ ननु निर्विकृतिक एवाकाराभिधानाद्विकृति-परिमाणप्रत्याख्याने कुत आकारा अवगम्यन्ते? उच्यते, निर्विकृतिग्रहणे विकृतिपरिमाणस्यापि सङ्ग्रहो भवति, ततस्त
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy