________________
ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૬૨
भोजनार्थः प्रयोजनं भक्तार्थः, न भक्तार्थोऽभक्तार्थः, अथवा न विद्यते भक्तार्थो यस्मिन् प्रत्याख्यानविशेषे सोऽभक्तार्थ उपवास इत्यर्थः, आकाराः पूर्ववत् नवरं 'पारिष्ठापनिकाकारे विशेष:- यदि त्रिविधाहारस्य प्रत्याख्याति, तदा पारिष्ठापनिकं कल्पते, यदि च चतुर्विधाहारस्य प्रत्याख्याति, पानकं च नास्ति, तदा न कल्पते, पानके तूद्धरिते कल्पते, 'वोसिरइ' इति भक्तार्थमशनादि च व्युत्सृजति ।
૪૧
अथ पानकम्-तत्र पौरुषी - पूर्वार्द्धकाशनैकस्थानाऽऽचामाम्लाऽभक्तार्थप्रत्याख्यानेषूत्सर्गतश्चतुविधाहारस्य प्रत्याख्यानं न्याय्यम् यदि तु त्रिविधाहारस्य प्रत्याख्यानं करोति तदा पानकमाश्रित्य डाकारा भवन्ति, यत्सूत्रम्
" पाणस्स लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरइ" ।
इह ‘अन्यत्र' इत्यस्यानुवृत्तेस्तृतीयायाः पञ्चम्यर्थत्वाद् 'लेवाडेण वत्ति' कृतलेपाद्वा पिच्छिलत्वेन भाजनादीनामुपलेपकात्खर्जुरादिपानकादन्यत्र तद्वर्जयित्वेत्यर्थः त्रिविधाहारं 'व्युत्सृजती 'तियोगः, वाशब्दो लेपकृतपानकापेक्षया अवर्जनीयत्वाविशेषद्योतनार्थः, अलेपकारिणेव लेपकारिणाप्युपवासादेर्न भङ्ग इति भावः । ग्रं० ७००० । एवमलेपकृताद्वा अपिच्छिलात्सौवीरादेः, अच्छाद्वा निर्मलादुष्णोदकादेः, बहुलाद्वा गडुलात् तिलतन्दुलधावनादेः, ससिक्थाद्वा भक्तपुलाकोपेतादवश्रावणादेः, असिक्थाद्वा सिक्थवर्जितात्पानकाहारात् ।
अथ चरमम्- चरमोऽन्तिमो भागः, स च दिवसस्य भवस्य चेति द्विधा तद्विषयं प्रत्याख्यानमपि चरमम् इह भवचरमं यावज्जीवम्, तत्र द्विविधेऽपि चत्वार आकारा भवन्ति, यत्सूत्रम्
“दिवसचरमं भवचरमं वा पच्चक्खाइ, चउव्विहंपि आहारं असणं पाणं खाइमं साइमं, अन्नत्थणाभोगेणं सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरइ" ।
ननु दिवसचरमप्रत्याख्यानं निष्फलम्, एकाशनादिप्रत्याख्यानेनैव गतार्थत्वात् नैवम्, एकाशनादिकं ह्यष्टाद्याकारमेव, एतच्च चतुराकारमत आकाराणां सङ्क्षेपकरणात् सफलमेव, अत एवैकाशनादिकं दैवसिकमेव भवति, रात्रिभोजनस्य त्रिविधं त्रिविधेन यावज्जीवं प्रत्याख्यातत्वात् गृहस्थापेक्षया पुनरिदमादित्योद्गमान्तम् दिवसस्याहोरात्रमितिपर्यायतयापि दर्शनात् । तत्र च येषां रात्रिभोजननियमो ऽस्ति तेषामपीदं सार्थकम्, अनुवादत्वेन स्मारकत्वात् । भवचरमं तु द्व्याकारमपि भवति यदा जानाति महत्तरसर्वसमाधिप्रत्ययरूपाभ्यामाकाराभ्यां न प्रयोजनं तदा अनाभोग-सहसाकाराकारौ भवतः अङ्गुल्यादेरनाभोगेन सहसाकारेण वा मुखप्रक्षेपसम्भवात्, अत एवेदमनाकारमप्युच्यते, आकारद्वयस्यापरिहार्यत्वात् ।