SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह भाग-4 / द्वितीय मधिलार | -१२ पार्श्वतः पृष्ठतश्च स्थानम् ६, तथा पुरतः पार्श्वतः पृष्ठतो वा निषीदनम् ७-८-९ आचार्येण सहोच्चारभूमिं गतस्य आचार्यात् प्रथममेवाचमनम् १० गुरोरालापनीयस्य कस्यचिच्छिष्येण प्रथममालापनं ११ शिष्यस्याचार्येण सह बहिर्गतस्य पुनर्निवृत्तस्याचार्यात्प्रथममेव गमनागमनालोचनम् १२ भिक्षामानीय शिष्येण गुरोः पूर्वं शैक्षस्य कस्यचित्पुरतः आलोच्य पश्चाद्गुरोरालोचनम् १३ भिक्षामानीय प्रथम शैक्षस्य कस्यचिदुपदर्य गुरोर्दर्शनम् १४ गुरुमनापृच्छ्य शैक्षाणां यथारुचि प्रभूतभैक्षदानम् १५ भिक्षामानीय शैक्षं कञ्चन निमन्त्र्य पश्चाद्गुरोरुपनिमन्त्रणम् १६ शिष्येण भिक्षामानीय आचार्याय यत्किञ्चिद्दत्वा स्वयं स्निग्धमधुरमनोज्ञाहारशाकादीनां वर्णगन्धस्पर्शरसवतां च द्रव्याणां स्वयमुपभोगः १७ रात्रौ आर्याः! कः स्वपिति जागर्ति वा? इति गुरोः पृच्छतोऽपि जाग्रतापि शिष्येणाप्रतिश्रवणम् १८ शेषकालेऽपि गुरौ व्याहरति यत्र तत्र स्थितेन शयितेन वा शिष्येण प्रतिवचनदानम् १९ आहूतेनासनं शयनं वा त्यक्त्वा सन्निहितीभूय 'मस्तकेन वन्दे' इति वदता गुरुवचनं श्रोतव्यम्, तदकुर्वत आशातना २० गुरुणाऽऽहूतस्य शिष्यस्य 'किमिति वचनम्, भणितव्यं च 'मस्तकेन वन्दे' इति २१ गुरुं प्रति शिष्यस्य त्वङ्कारः २२ गुरुणा ग्लानादिवैयावृत्त्यादिहेतोरिदं कुर्वित्यादिष्टस्त्वमेव किं न कुरुषे? इति, 'त्वमलस' इत्युक्ते 'त्वमप्यलस' इति च शिष्यस्य तज्जातवचनम् २३ गुरोः पुरतो बहोः कर्कशस्योच्चैः स्वरस्य च शिष्येण वदनम् २४ गुरौ कथां कथयति ‘एवमित्येतदि'त्यन्तराले शिष्यस्य वचनम् २५ गुरौ धर्मकथां कथयति 'न स्मरसि त्वमेतमर्थं, नायमर्थः सम्भवति' इति शिष्यस्य वचनम् २६ गुरौ धर्मं कथयति सौमनस्यरहितस्य गुरूक्तमननुमोदमानस्य 'साधूक्तं भवद्भिरित्यप्रशंसतः शिष्यस्योपहतमनस्त्वम् २७ गुरौ धर्मं कथयति ‘इयं भिक्षावेला, सूत्रपौरुषीवेला, भोजनवेला,' इत्यादिना शिष्येण पर्षभेदनम् २८ गुरौ धर्मकथां कथयति 'अहं कथयिष्यामि' इति शिष्येण कथाछेदनम् २९ तथा आचार्येण धर्मकथां कृतायामनुत्थितायामेव पर्षदि स्वस्य पाटवादिज्ञापनाय शिष्येण सविशेषं धर्मकथनम् ३० गुरोः पुरतः उच्चासने समासने वा शिष्यस्योपवेशनम् ३१ गुरोः शय्यासंस्तारकादिकस्य पादेन घट्टनम्, अननुज्ञाप्य हस्तेन वा स्पर्शनम्, घट्टयित्वा स्पृष्ट्वा वा अक्षामणम् यदाह“संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज्ज न पुण त्ति अ ।।१।। [दशवैकालिक सू. ९-२-१८] ३२" गुरोः शय्यासंस्तारकादौ स्थानं निषीदनं शयनं चेति ३३, एतदर्थसंवादिन्यो गाथा:"पुरओ १ पक्खा २ ऽऽऽऽसन्ने ३ गमणं ३ ठाणं ३ निसीअणं ३ ति नव। सेहे पुव्वं आयमइ १० आलवइ ११ य तह य आलोए १२ ।।१।।
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy