SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ૨૨૦ धर्मसंग्रह भाग-4 / द्वितीय अधिभार | NIs-१५ अत्र पाक्षिके पूर्ववद्दिवसप्रतिक्रमणं प्रतिक्रमणसूत्रान्तं विधत्ते, ततः क्षमाश्रमणपूर्वं 'देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन्! पाखी मुहपत्ती पडिलेहुं' इत्युक्त्वा तां कायं च प्रतिलिख्य वन्दनके दत्त्वा सम्बुद्धान् श्रीगुर्वादीन् क्षमयितुं क्षमाप्रधानं च सर्वमनुष्ठानं सफलमिति ज्ञापयितुं 'अब्भुट्टिओमि संबुद्धाखामणेणं अभिंतरपक्खिअं खामेउं' इति भणित्वा 'इच्छं खामेमि पक्खि पन्नरसण्हं दिवसाणं, पन्नरसण्हं राईणं, जं किंचि अप्पत्ति'मित्यादिना गुरुभिः स्थापनाचार्ये क्षमिते शिष्यः श्राद्धो वा श्रीगुर्वादीन् क्षमयति त्रीन् पञ्च वा, यदि द्वौ शेषौ, तत उत्थाय 'इच्छाकारेण संदिसह भगवन्! पक्खिअं आलोएमि? इच्छं आलोएमि, जो मे पक्खिओ' इत्यादि सूत्रं भणित्वा संक्षेपेण विस्तरेण वा पाक्षिकानतीचारानालोच्य 'सव्वस्सवि पक्खिअ' इत्यादिभणिते गुरुराह'पडिक्कमह' तत 'इच्छंति भणित्वा 'चउत्थेण'मित्यादिना गुरुदत्त-मुपवासादिरूपं प्रायश्चित्तं प्रतिपद्यते । ततो वन्दनकदानपुरस्सरं प्रत्येकक्षमणकानि विधातुं गुरुरन्यो वा ज्येष्ठः पूर्वमुत्थायोर्ध्वस्थित एव भणति-'देवसिअं आलोइअ पडिक्कंता, इच्छाकारेण संदिसह भगवन् ! अब्भुट्ठिओऽहं प्रत्येक खामणेणं अग्भितरपक्खिअं खामेडं, 'इच्छं' इच्छकारि अमुकतपोधन! स भणति 'मत्थएण वंदामि' क्षमाश्रमणपूर्वं । गुरुराह-'अब्भुट्ठिओमि पत्तेअखामणेणं अभिंतरपक्खिअं खामेउं' सोऽपि 'अहमवि खामेमि तुब्भे'त्ति भणित्वा भूमिनिहितशिराः पुनर्भणति ‘इच्छं खामेमि पक्खिरं, पन्नरसण्हं दिवसाणं पन्नरसण्हं राईण'मित्यादि गुरुस्तु पनरसण्ह-मित्यादि 'उच्चासणे समासणे' इतिपदद्वयवर्ज भणति, एवं सर्वेऽपि साधवः परस्परं क्षमयन्ति, लघुवाचनाचार्येण सह प्रतिक्रामतां साधूनां ज्येष्ठः प्रथम स्थापनाचार्य क्षमयति, ततः सर्वेऽपि यथारत्नाधिकम्, गुर्वभावे सामान्यसाधवः प्रथमं स्थापनाचार्य क्षमयन्ति, यावद् द्वौ शेषौ, एवं श्रावका अपि, परं वृद्धश्रावकोऽमुकप्रमुखसमस्तश्रावको वांदुं वांदूं इति भणित्वा 'अब्भुट्टिओमि प्रत्येकखामणेणं अभिंतरपक्खिअंखामेति' इतरे च भणन्ति अहमवि खामेमि तुब्भे' ततोवृद्ध इतरे चेति उभयेऽपि भणन्ति पंनरसण्हं दिवसाणं पन्नरसण्हं राईणं भण्यां भास्यां मिच्छामि दुक्कडं' । ततो वन्दनकदानपूर्वं 'देवसिअं आलोइअ पडिक्कंता इच्छाकारेण संदिसह भगवन् ! पक्खिरं पडिक्कमावेह?' गुरुर्भणति ‘सम्म पडिक्कमह' तत 'इच्छन्ति कथनपूर्वं सामायिकसूत्रं 'इच्छामि पडिक्कमिउं जो मे पक्खिओ' इत्यादि भणित्वा क्षमाश्रमणपूर्वम् ‘इच्छाकारेण संदिसह भगवन् ! पक्खिअसुत्तं कड्डेमित्ति उक्त्वा गुरुस्तदादिष्टोन्यो वा साधुः सावधानमना व्यक्ताक्षरं नमस्कारत्रिकपूर्वं पाक्षिकसूत्रं कथयति, इतरे च क्षमाश्रमणपूर्वं 'संभलेमित्ति भणित्वा यथाशक्ति कायोत्सर्गादौ स्थित्वा
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy