SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ધર્મસંગ્રહ ભાગ-૫ / દ્વિતીય અધિકાર | શ્લોક-૧ર "उस्सुत्तभासगाणं, बोहिणासो अणंतसंसारो । पाणच्चएवि धीरा, उस्सुत्तं ता न भासंति ।।१।।" “तित्थयर पवयणं सुअं, आयरिअं गणहरं महड्डीअं । आसायंतो बहुसो, अणंतसंसारिओ होइ ।।१।।" [उपदेशपदे ४२३] इति । 'एवं देवज्ञानसाधारणद्रव्याणां गुरुद्रव्यस्य च वस्त्रपात्रादेविनाशे तदुपेक्षायां च महत्याशातना, यदूचे “चेइअदव्वविणासे, इसिघाए पवयणस्स उड्डाहे । संजइचउत्थभंगे, मूलग्गी बोहिलाभस्स ।।१।।" [सम्बोध प्र. देवा. १०५] विनाशोऽत्र भक्षणोपेक्षणादिलक्षणः, श्रावकदिनकृत्यदर्शनशुद्ध्यादावपि"चेइअदव्वं साहारणं च जो दुहइ मोहिअमईओ । धम्मं च सो न याणइ, अहवा बद्धाउओ नरए ।।१।।" [सम्बोध प्र. दे. १०७] चैत्यद्रव्यं प्रसिद्धं, साधारणं च चैत्यपुस्तकापद्गतश्राद्धादिसमुद्धरणयोग्यं ऋद्धिमच्छ्रावकमीलितम्, एते द्वे यो द्रुह्यति=विनाशयति दोग्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्त इत्यर्थः । "चेइअदव्वविणासे, तद्दव्वविणासणे दुविहभेए । साहु उविक्खमाणो, अणंतसंसारिओ होइ ।।१।।” [सम्बोध प्र. दे. १०६] "चैत्यद्रव्यं हिरण्यादि तस्य विनाशे, तथा तस्य चैत्यस्य द्रव्यं दारूपलेष्टकादि तस्य विनाशने विध्वंसने, कथंभूते? द्विविधे योग्यातीतभावविनाशभेदात्, तत्र योग्यं नव्यमानीतम्, अतीतभावं लग्नोत्पाटितम् अथवा मूलोत्तरभेदाद् द्विविधे, तत्र मूलं स्तम्भकुम्भादि, उत्तरं तु च्छादनादि, स्वपक्षपरपक्षकृतविनाशभेदाद्वा द्विविधे, स्वपक्षः साधर्मिकवर्गः, परपक्षो वैधर्मिकलोकः, एवमनेकधा द्वैविध्यम्, अत्रापिशब्दस्याध्याहारादास्तां श्रावकः, सर्वसावधविरतः साधुरप्यौदासीन्यं कुर्वाणो देशनादिभिरनिवारयन्ननन्तसंसारिको भणित इति वृत्तिः ।" ननु त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यरक्षायां को नामाधिकारः इति चेदुच्यते, राजादेः सकाशाद् गृहग्रामाद्यादेशादिनाऽभ्यर्थ्य नव्यमुत्पादयतो यतेर्भवति भवदुक्तदूषणावकाशः, परं केनचिद्यथाभद्रकादिना प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति, तदा नाभ्युपेतार्थहानिः, प्रत्युत धर्मपुष्टिरेव, जिनाज्ञाराधनात्, आगमेऽप्येवमेव, यदाह“चोएइ चेइआणं, खित्तहिरण्णे अ गामगोवाई । लग्गंतस्स उ जइणो, तिगरणसोही कहं नु भवे? ।।१।।
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy