SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ૧૭૨ ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-કપ मपेक्ष्य षडावश्यकरूपज्ञानक्रियासमुदायप्रवृत्तेरविरोधात्, क्रियारूप एकदेशे आगमस्याभावानोआगमत्वं, नोशब्दस्य देशनिषेधार्थत्वात्, उक्तं च "किरिआऽऽगमो ण होइ, तस्स णिसे,मि नोसद्दोत्ति" [ ] तत्र सामायिकम आर्त्तरौद्रध्यानपरिहारेण धर्मध्यानकरणेन शत्रुमित्रकाञ्चनादिषु समता, तच्च पूर्वमुक्तं, चतुर्विंशतिस्तवः चतुर्विंशतेस्तीर्थकराणां नामोत्कीर्तनपूर्वकं गुणकीर्तनं, तस्य च कायोत्सर्गे मनसाऽनुध्यानं शेषकालं व्यक्तवर्णपाठः, अयमपि पूर्वमुक्तः, वन्दनं-वन्दनायोग्यानां धर्माचार्याणां पञ्चविंशत्यावश्यकविशुद्धं द्वात्रिंशद्दोषरहितं नमस्करणं, तदप्युक्तमेव । प्रतिक्रमणं प्रतीत्युपसर्गः प्रतीपे प्रातिकूल्ये वा, ‘क्रम पादविक्षेपे' [धा. पा. ३८५] अस्य प्रतिपूर्वस्य भावे ल्युडन्तस्य प्रतीपं क्रमणं, अयमर्थ:-शुभयोगेभ्योऽशुभयोगान्तरं क्रान्तस्य शुभेष्वेव क्रमणात् प्रतीपं क्रमणं प्रतिक्रमणं, यदाह"स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद् गतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ।।१।।" प्रतिकूलं वा गमनं प्रतिक्रमणं, यदाह“क्षायोपशमिकाद् भावादौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः ।।१।।" प्रति प्रति क्रमणं वा प्रतिक्रमणम्, उक्तं च“प्रति प्रति वर्त्तनं वा, शुभेषु योगेषु मोक्षफलदेषु । निःशल्यस्य यतेर्यत्तद्वा ज्ञेयं प्रतिक्रमणम् ।।१।।" तच्चातीतानागतवर्तमानकालत्रयविषयम, नन्वतीतविषयमेव प्रतिक्रमणं, यत उक्तं-“अईअं पडिक़्कमामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामी ति" [ ] तत्कथं त्रिकालविषयता?, उच्यते, अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थ: "मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ।।१।।" [आवश्यकनिर्युक्तौ १२६४] ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम्, प्रत्युत्पन्नविषयमपि संवरद्वारेण, अनागतविषयमपि प्रत्याख्यानद्वारेणेति न कश्चिद्दोषः, इत्थं त्रिकालविषयं प्रतीपक्रमणादि प्रतिक्रमणमिति सिद्धम्, एतच्च व्युत्पत्तिमात्रम्, रूढिश्च क्वचिदावश्यकविशेषे, क्वचिच्च षडावश्यकक्रियायामित्युक्तमेव,
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy