________________
૧પ૬
धर्मसंग्रह लाग-५ / द्वितीय अधिार | -५४ सदितरलब्धियुतेतरादिभावास्तेषु तुल्येषु समेषु सत्सु, किमित्याह-भवति-वर्त्तते तुच्छस्येति प्रक्रमः, दानं-वस्त्रादिवितरणम्, दिगादिभेदे दिगादिभिर्भेदे सति दिगाद्यपेक्षयेत्यर्थः, तथाहि-द्वयोः साध्वोः सद्वस्त्रत्वे सति यो दिशाऽऽसन्नस्तस्मै देयम्, एवमसद्वस्त्रत्वे लब्धियुतत्वे तदितरत्वे चेति, अथ तुल्येऽपि भावे दिशमतिक्रम्य ददतः किं स्यादित्याह-तया दिशाऽददतः अप्रयच्छत आज्ञाभङ्गानवस्थामिथ्यात्वविराधनालक्षणा दोषा भवन्तीति गाथार्थः । [पञ्चाशक टीका प. १०६]
आभवद्व्यवहारापेक्षया च दिग् गृहस्थस्य प्रविव्रजिषोरुत्प्रव्रजितस्य वाऽऽगमे दृश्यते, नान्यस्य, यत इयं कल्पव्यवहारोक्ता दिग्व्यवस्था-यः प्रव्रजितुकामः सामायिकादिपाठप्रवृत्तः स त्रीणि वर्षाणि यावत् प्रतिबोधकाचार्यस्यैव सत्को भवति, यदाह
“सामाइआइए खलु, धम्मायरिअस्स तिण्णि जा वासा । नियमेण होइ सेहो, उज्जमओ तदुवरि भयणा ।।१।।"
यस्तु निह्नवादिर्भूत्वा पुनः प्रव्रजति, तस्य स्वेच्छया दिक्, अत्यक्तसम्यक्त्वस्तूत्प्रव्रज्य यः प्रव्रजति स त्रीणि वर्षाणि यावत्पूर्वाचार्यस्यैव, आह च"परलिंगिनिण्हए वा, सम्मसणजढे उ उवसंते । तद्दिवसमेव इच्छा, सम्मत्तजुए समा तिण्णि ।।१।।"
उत्प्रव्रजितस्तु द्विधा-सारूपी गृहस्थश्च, तत्र सारूपी रजोहरणवर्जसाधुवेषधारी, स च यावज्जीवं पूर्वाचार्यस्य, तन्मुण्डीकृतानि च, यानि च तेन न मुण्डितानि केवलं बोधितान्येव, तानि यमाचार्यमिच्छन्ति तस्यासौ ददाति, तदीयानि च तानि भवन्ति ।
अपत्यानां चायं विधिः-तदपत्यानि पूर्वाचार्यस्यैव, आह च"सारूवी जाजीवं, पुव्वायरि अस्स जे अ पव्वावे । अपव्वाविए सछंदो, इच्छाए जस्स सो देइ ।।१।।"
गृहस्थः पुनर्द्विविधो-मुण्डितः सशिखश्च, स च द्विविधोऽपि पूर्वाचार्यस्य, यानि च तेनोत्प्रव्रजनानन्तरं वर्षत्रयाभ्यन्तरे बोधयित्वा मुण्डीकृतानि तानि चेति, आह च“जो पुण गिहत्थमुंडो, अहवाऽमुंडो उ तिण्ह वरिसाणं ।। आरेणं पव्वावे, सयं च पुव्वायरिअ सव्वो ।।१।।" इति कृतं प्रसक्तानुप्रसक्तेन
अत्र चोपयोगी साधुनिमन्त्रणभिक्षाग्रहणादिविशेषोऽतिथिसंविभागव्रताधिकार उक्त एव इदं च सुपात्रदानं दिव्यौदारिकाद्यभीष्टसुखसमृद्धिसाम्राज्यादिसंयोगप्राप्तिपूर्वकनिविलम्बनिर्वाणपदप्राप्तिफलं, यतः