________________
૧૨૨
धर्मसंग्रह भाग-4 / द्वितीय अधिकार | PRोs-3 स्नेहवृद्धिकीर्त्यादिहेतुर्हितोपदेशमालागाथाभिः प्रदर्श्यते
"सामन्ने मणुअत्ते, जं केई पाउणंति इह कित्तिं । तं मुणह निव्विअप्पं, उचिआचरणस्स माहप्पं ।।१।।" 'तं पुण पिइ १ माइ २ सहोअरेसु ३ पणइणि ४ अवच्च ५ सयणेसुं ६ । गुरुजण ७ नायर ८ परतित्थिएसु ९ पुरिसेण कायव्वं ।।२।।" तत्र पितृविषयं कायवाग्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाह“पिउणो तणुसुस्सूसं, विणएणं किंकरुव्व कुणइ सयं । वयणंपि से पडिच्छइ, वयणाओ अपडिअं चेव ।।३।।" तनूशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपाम्, देशकालसात्म्यौचित्येन भोजनशयनीयवसनाऽङ्गरागादिसम्पादनरूपां च, विनयेन न तु परोपरोधावज्ञादिभिः, स्वयं करोति न तु भृत्यादिभ्यः(भिः) कारयति, यतः- - “गुरोः पुरो निषण्णस्य, या शोभा जायते सुनोः । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः? ।।१।।"
अपडिअंति वदनादपतितमुच्चार्यमाणमेवादेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति, न पुनरनाकर्णितशिरोधूननकालक्षेपार्द्धविधानादिभिरवजानाति, “चित्तंपि हु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेसुं । उवजीवइ बुद्धिगुणे, निअसब्भावं पयासेइ ।।४।।" स्वबुद्धिविचारितमवश्यविधेयमपि कार्यं तदेवारभते यत्पितुर्मनोऽनुकूलमितिभावः, बुद्धिगुणान् शुश्रूषादिन् सकलव्यवहारगोचरांश्चोपजीवति=अभ्यस्यति, बहुदृश्वानो पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि, निजसद्भावं चित्ताभिप्रायं प्रकाशयति"आपुच्छिउं पयट्टइ, करणिज्जेसुं निसेहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं नहु विलंघेइ ।।५।।" “सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइवि तहेव ।।६।।"
तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत् । धर्मानुगतान् सुदेवपूजागुरुपर्युपास्तिधर्मश्रवणविरतिप्रतिपत्त्यावश्यकप्रवृत्तिसप्तक्षेत्रीवित्तव्ययतीर्थयात्रादीनानाथोद्धरणादीन्मनोरथान्