________________
૧૧૮
धर्भसंग्रह भाग-५/द्वितीय मधिRI -93 “धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ।।१।।"
"स्वनिर्वाहाक्षमतया ऋणदानाशक्तेन तूत्तमर्णगृहे कर्मकरणादिनापि ऋणमुच्छेद्यम्, अन्यथा भवान्तरे तद्गृहे कर्मकरमहिषवृषभकरभरासभादित्वस्यापि सम्भवात् उत्तमर्णेनापि सर्वथा ऋणदानाशक्तो न याच्यो, मुधाऽऽर्तध्यानक्लेशपापवृद्ध्यादिप्रादुर्भावात्, किंतु यदा शक्नोषि तदा दद्या नो चेदिदं मे धर्मपदे भूयादिति वाच्यो नतु ऋणसंबन्धश्चिरं स्थाप्यः, तथा सत्यायुःसमाप्तौ भवान्तरे द्वयोमिथःसम्बन्धवैरवृद्ध्याद्यापत्तेः, अन्यत्रापि व्यवहारे निजस्वस्यावलने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिनाऽतः साधर्मिकैरेव सह मुख्यवृत्त्या व्यवहारो न्याय्यस्तत्पार्श्वे स्थितस्य निजस्वस्य धर्मोपयोगित्वसम्भवात् तथा परमत्सरमपि न कुर्यात्, कर्मायत्ता हि भूतयः, किं मुधा मत्सरेण भवद्वयेऽपि दुःखकरेण, तथा धान्यौषधवस्त्रादिवस्तुविक्रयार्ता()वपि दुर्भिक्षव्याधिवृद्धिवस्त्रादिवस्तुक्षयादि जगदुःखकृत्सर्वथा नाभिलषेत्, नापि दैवात्तज्जातमनुमोदेत, मुधा मनोमालिन्याद्यापत्तेः ।" तदाहुः"उचिअं मुत्तूण कलं, दव्वाइकमागयं च उक्करिसं । निवडिअमवि जाणतो, परस्स संतं न गिण्हिज्जा ।।१।।" व्याख्या-उचितं कलाशतं प्रति चतुष्कपञ्चकवृद्ध्यादिरूपा, ‘व्याजे स्याद् द्विगुणं वित्तं' [ ] इत्युक्तेर्द्विगुण(णा)द्रव्य(व्ये)त्रिगुणधान्यादिरूपा वा ताम्, तथा द्रव्यंगणिमधरिमादि, आदिशब्दातत्तद्गतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण द्रव्यक्षयलक्षणेनागतः सम्पनो य उत्कर्षोऽर्थवृद्धिरूपस्तं मुक्त्वा शेषं न गृह्णियात्, कोऽर्थः?
यदि कथञ्चित् पूगफलादिद्रव्याणां क्षयाद् द्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति, न त्वेतच्चिन्तयेत्-सुन्दरं जातम्, यत्पूगफलादीनां क्षयोऽभूदिति तथा निपतितमपि परसत्कं जानन गृह्णीयात्, कलान्तरादौ क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचितः शिष्टजनानिन्दितो लाभः स एव ग्राह्य' इत्युक्तमाद्यपञ्चाशकवृत्तौ । [गा. १३-१४]
तथा कूटतुलामानन्यूनाधिकवाणिज्यरसमेलवस्तुमेलाऽनुचितकलान्तरग्रहणलञ्चाप्रदानग्रहणकूटकरकर्षणकूटघृष्टनाणकाद्यर्पणपरकीयक्रयविक्रयभञ्जनपरकीयग्राहकव्युद्ग्राहणवर्णिकान्तरदर्शनसान्धकारस्थानवस्त्रादिवाणिज्यमषीभेदादिभिः सर्वथा परवञ्चनं वम् यतः'विधाय मायां विविधैरुपायैः, परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्यहो मोहविजृम्भितानि' ।।१।। इति ।