SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ___७३ धर्मसंग्रह भाग-४ | द्वितीय अधिकार | दो-५१ ततो मूलबिम्बस्य प्रणामं कृत्वा सर्वं हि प्रायेणोत्कृष्टं वस्तु श्रेयस्कामैर्दक्षिणभाग एव विधेयमित्यात्मनो दक्षिणाङ्गभागे मूलबिम्बं कुर्वन् ज्ञानादित्रयाराधनार्थं प्रदक्षिणात्रयं करोति । उक्तं च"तत्तो नमो जिणाणंत्ति भणिअ अद्धोणयं पणामं च । काउं पंचगं वा, भत्तिब्भरनिब्भरमणेणं ।।१।।" [चेइअवंदण महाभास १८९] "पूअंगपाणिपरिवारपरिगओ गहिरमहुरघोसेणं । पढमाणो जिणगुणगणनिबद्धमंगल्लथुत्ताइं ।२।।" "करधरिअजोगमुद्दो, पए पए पाणिरक्खणाउत्तो । दिज्जा पयाहिणतिगं, एगग्गमणो जिणगुणेसुं ।।३।।" "गिहचेइएसु न घडइ, इअरेसुवि जइवि कारणवसेणं । तहवि न मुंचइ मइमं, सयावि तक्करणपरिणामं ।।४।।" [चेइअवंदणमहाभास १९१-२] प्रदक्षिणादाने च समवसरणस्थचतूरूपं श्रीजिनं ध्यायन् गर्भागारदक्षिणपृष्ठवामदिकायस्थबिम्बत्रयं वन्दते, अत एव सर्वस्यापि चैत्यस्य समवसृतिस्थानीयतया गर्भगृहबहिर्भागे दिकत्रये मूलबिम्बनाम्ना बिम्बानि कुर्वन्ति, एवं च 'वर्जयेदर्हतः पृष्ठ'मित्युक्तोऽर्हत्पृष्ठनिवासदोषोऽपि चतुर्दिक्षु निवर्त्तते, ततश्चैत्यप्रमार्जनपोतकलेख्यकादिवक्ष्यमाण यथोचितचिन्तापूर्वं विहितसकलपूजासामग्रीको जिनगृहव्यापारनिषेधरूपां द्वितीयां नैषेधिकी मुखमण्डपादौ कृत्वा मूलबिम्बस्य प्रणामत्रयपूर्वकं पूर्वोक्तविधिना पूजां कुरुते, यद्भाष्यम्“तत्तो निसीहिआए, पविसित्ता मंडवंमि जिणपुरओ । महिनिहिअजाणुपाणी, करेइ विहिणा पणामतिगं ।।१।।" “तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसिअं, निम्मल्लं लोमहत्थेणं ।।२।।" "जिणगिहपमज्जणं तो, करेइ कारेइ वावि अन्नेणं । .. जिणबिंबाणं पूअं, तो विहिणा कुणइ जहजोगं ।।३।।" [चेइअवंदणमहाभास १९३-५] अत्र च विशेषतः शुद्धगन्धोदकप्रक्षालनकुङ्कुममिश्रगोशीर्षचन्दनविलेपनाङ्गीरचनगोरोचनमृगमदादिपत्रभङ्गकरणनानाजातीयपुष्पमालारोपणचीनांशुकवस्त्रपरिधापनकृष्णागुरुमिश्रकर्पूरदहनानेकदीपोद्योतनस्वच्छाखण्डाक्षताष्टमङ्गलालेखनविचित्रपुष्पगृहरचनादि विधेयम् । यदि च प्राक्केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तदर्शनजन्यपुण्यानुबन्धिपुण्यबन्धस्यान्तरायप्रसङ्गात्, किन्तु तामेव विशेषयेद्, यद् बृहद्भाष्यम्
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy