SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८3 धर्मसंग्रह भाग-४ / द्वितीय अधिकार | लो-११ योगप्रयोगयोश्चाभावात्तिर्यग्न तस्य गतिरस्ति । तस्मात्सिद्धस्योर्ध्वं, ह्यालोकान्ताद् गतिर्भवती ।।२।।" [प्रशमरतौ २९३-४] ति । 'नमः सदा सर्वसिद्धेभ्यः' नमोऽस्तु सदा सर्वकालम्, सर्वसिद्धेभ्यः सर्वं साध्यं सिद्धं येषां ते सर्वसिद्धास्तेभ्यः, अथवा सर्वसिद्धेभ्यः तीर्थसिद्धादिभेदेभ्यः, यथोक्तम् "तित्थसिद्धा, अतित्थसिद्धा, तित्थयरसिद्धा, अतित्थयरसिद्धा, सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा, बुद्धबोहिअसिद्धा, थीलिंगसिद्धा, पुरिसलिंगसिद्धा, नपुंसगलिंगसिद्धा, सलिंगसिद्धा, अन्नलिंगसिद्धा, गिहिलिंगसिद्धा, एगसिद्धा, अणेगसिद्धा" । [प्रज्ञापनासूत्रे १।१६] ।। तत्र तीर्थे चतुर्विधश्रमणसधे उत्पन्ने सति ये सिद्धास्ते तीर्थसिद्धाः । अतीर्थे जिनान्तरे साधुव्यवच्छेदे सति जातिस्मरणादिना अवाप्तापवर्गमार्गाः सिद्धा अतीर्थसिद्धाः, मरुदेवीप्रभृतयो वा तदा तीर्थस्यानुत्पन्नत्वात् । तीर्थकरसिद्धाः तीर्थकरत्वमनुभूय सिद्धाः । अतीर्थकरसिद्धाः सामान्यकेवलित्वे सति सिद्धाः । स्वयंबुद्धाः सन्तो ये सिद्धाः ते स्वयंबुद्धसिद्धाः । प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः, स्वयंबुद्धप्रत्येकबुद्धयोश्च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, स्वयंबुद्धा बाह्यप्रत्ययमन्तरेण बुध्यन्ते, प्रत्येकबुद्धाः पुनर्बाह्यप्रत्ययेन वृषभादिना करकण्डवादिवत्, उपधिस्तु स्वयंबुद्धानां पात्रादिदिशधा, प्रत्येकबुद्धानां प्रावरणवों नवविधः स्वयंबुद्धानां पूर्वाधितश्रुते न नियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिस्तु स्वयंबुद्धानां गुरुसन्निधावपि भवति, प्रत्येकबुद्धानां देवता लिङ्गं प्रयच्छति । बुद्धा आचार्या अवगततत्त्वाः तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः । __एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, केचित्पुंल्लिङ्गसिद्धाः, केचिनपुंसकलिङ्गसिद्धाः, ननु तीर्थकरा अपि किं स्त्रीलिङ्गसिद्धा भवन्ति? भवन्त्येव, यत उक्तं सिद्धप्राभृते–'सव्वथोवा तित्थयरिसिद्धा, तित्थयरितित्थे नोतित्थयरसिद्धा असंखेज्जगुणा, तित्थयरितित्थे नोतित्थयरिसिद्धाओ असंखेज्जगुणाओ, तित्थयरतित्थे णोतित्थयरसिद्धा संखेज्जगुणा' [ ] . नपुंसकलिङ्गसिद्धास्तु तीर्थकरसिद्धा न भवन्त्येव, प्रत्येकबुद्धसिद्धास्तु पुँल्लिङ्गसिद्धा एव । स्वलिङ्गेन रजोहरणादिना द्रव्यलिङ्गेन सिद्धाः स्वलिङ्गसिद्धाः । अन्येषां परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः ।
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy