SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४३ - धर्भसंग्रह भाग-3/द्वितीय मधिकार/Cोs-32-33-3४ १ कुसुंभग २ कोद्दव ३ कंगु ४ बरट्ट ५ रालग ६ कोडूसग ७ सण ८ सरिसव ९ मूलबीअ १० माईणं धण्णाणं ? सत्त संवच्छराई” । [सू० २४६] अत्र पूर्वसूरिकृतगाथा यथा - “जव १ जवजव २ गोहुम ३ सालि ४ वीहि ५ धण्णाण कुट्ठयाईसुं । खिविआणं उक्कोसं, वरिसतिगं होइ सजीअत्तं ।।१।। तिल १ मुग्ग २ मसुर ३ कलाय ४ मास ५ चवलय ६ कुलत्थ ७ तुवरीणं ८ । तह वट्टचणय ९ वल्लाण १०, वरिसपणगं सजीअत्तं ।।२।। अयसी १ लट्टा २ कंगू ३, कोडूसग ४ सण ५ बरट्ट ६ सिद्धत्था ७ । कुद्दव ८ रालग ९ मूलगबीयाणं १० सत्त वरिसाणि ।।३।।" [] कर्पासस्याचित्तता त्रिवर्षानन्तरं स्याद् । यदुक्तं कल्पबृहद्भाष्ये - “सेंडुगं तिवरिसाइ, गिद्भुति" [ ] सेडूकं त्रिवर्षातीतं विध्वस्तयोनिकमेव कल्पते, “सेडूकः कर्पास" इति तद्वृत्तौ । पिष्टस्य तु मिश्रताद्येवमुक्तं पूर्वसूरिभिः - "पणदिण मीसो लुट्टो, अचालिओ सावणे अ भद्दवए । चउ आसोए कत्तिअमगसिरपोसेसु तिन्नि दिणा ।।१।। पणपहर माहफग्गुण, पहरा चत्तारि चित्तवइसाहे ।। जिट्ठासाढे तिपहर, तेण परं होइ अच्चित्तो ।।२।।" [] चालितस्तु महन्दुर्ध्वमचित्तः, तस्य चाचित्तीभूतानन्तरं विनशनकालमानं तु शास्त्रे न दृश्यते, परं द्रव्यादिविशेषेण वर्णादिविपरिणामाभवनं यावत्कल्पते, उष्णनीरं तु त्रिदण्डोत्कलनावधि मिश्रम्, यदुक्तं पिण्डनिर्युक्तौ - “उसिणोदगमणुवत्ते, दंडे वासे अ पडिअमित्तंमि । मुत्तूणादेसतिगं, चाउलउदगेऽबहुपसन्नं ।।१।।" [गा. १८] व्याख्या-अनुद्वृत्तेषु त्रिदण्डेषु-उत्कालेषु जलमुष्णं मिश्रम्, ततः परमचित्तम्, तथा वर्षे-वृष्टौ पतितमात्रायां ग्रामादिषु प्रभूतमनुष्यप्रचारभूमौ यज्जलं तद्यावन्न परिणमति तावन्मिश्रम्, अरण्यभूमौ तु यत्प्रथमं पतति तत्पतितमात्रं मिश्रम्, पश्चानिपतत् सचित्तम्, आदेशत्रिकं मुक्त्वा तन्दुलोदकमबहुप्रसन्नं मिश्रम्, अतिस्वच्छीभूतं त्वचित्तम् । अत्र यत्र आदेशा यथा-केचिद्वदन्ति तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यत्र भाण्डे क्षिप्यमाणे त्रुटित्वा भाण्डपार्श्वे लग्ना बिन्दवो यावन्न शाम्यन्ति तावन्मिश्रम्, अपरे तु तथैव जाता यावद् बुद्बुदा न शाम्यन्ति तावत्, अन्ये तु
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy