________________
૧૯૪
ધર્મસંગ્રહ ભાગ-૩ / દ્વિતીય અધિકાર / બ્લોક-૪૫
Reोs:
स्तेनाहतग्रहस्तेनप्रयोगौ मानविप्लवः ।
द्विभाज्यगतिरस्तेये, प्रतिरूपेण च क्रिया ।।४५।। मन्वयार्थ :
स्तेनाहतग्रहस्तेनप्रयोगौ-योर द्वारा सावली वस्तु ग्रहए, योरने योशमा प्रवतो , मानविप्लवः मानना विप्लव-छूट तर दूट मा५ २i, द्विड्राज्यगतिः शत्रुनाशयमा गमन, चसने, प्रतिरूपेण क्रिया प्रति३५थी या=dseी वस्तु बनायवी, अस्तेये-मस्य प्रतम मतिया छ. ॥४५॥ दोडार्थ :
ચોર દ્વારા લાવેલી વસ્તુનું ગ્રહણ, ચોરને ચોરીમાં પ્રવર્તાવવો, માનનો વિપ્લવકૂટતોલ - ફૂટમાપ કરવાં, શત્રુના રાજ્યમાં ગમન અને પ્રતિરૂપ ક્રિયા નકલી વસ્તુ બનાવવી (તે) અસ્તેય વ્રતમાં અતિચારો છે. ll૪૫ll टी :
'स्तेनाहतग्रहस्तेनप्रयोगौ' 'मानविप्लवो'=व्यत्ययो द्विड्राज्यगतिः' 'प्रतिरूपेण क्रिया' चेति अस्तेये' अदत्तादानविरमणरूपे तृतीयाणुव्रते प्रकरणात्पञ्चातिचारा ज्ञेया इति गम्यम् ।
तत्र स्तेनाः-चौरास्तैराहृतम् आनीतं कनकवस्त्रादि, तस्य ग्रहः आदानं, मूल्येन मुधिकया वा स स्तेनाहृतग्रहः, स्तेनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृह्णश्चौरो भवति, यतो नीतिः"चौरश्चौरापको मन्त्री, भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति, चौरः सप्तविधः स्मृतः ।।१।।" इति । ततश्चौर्यकरणाद्व्रतभङ्गः, वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाऽभङ्गरूपः प्रथमोऽतिचारः १ ।।
तथा स्तेनानां प्रयोगः-अभ्यनुज्ञानं हरत यूयमिति हरणक्रियायां प्रेरणेतियावत् अथवा स्तेनोपकरणानिकुशिकाकतरिकाघर्घरिकादीनि, तेषामर्पणं विक्रयणं वा स्तेनप्रयोगः अत्र च यद्यपि 'चौर्यं न करोमि न कारयामी'त्येवंप्रतिपन्नव्रतस्य स्तेनप्रयोगो व्रतभङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारास्तिष्ठत? यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रेष्ये' इत्येवंविधवचनैश्चौरान व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः २ ।