SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकं मण्डलप्रकरणम्। . (५७) सम० । समात्-मेरुमध्यस्थिताप्टप्रदेशात्मकरुचकसमानामृतलादष्टाभ्यो दशोनयोजनशतेभ्य आरभ्योपरि दशोत्तरे योजनशते ११० ज्योतिष्कास्तिष्ठन्ति । तथाहि-" शतानि सप्त गत्वोवं, योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ १ ॥ तारकापटलाद्गत्वा, योजनानां दशोत्तरे । सूर्याणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ २ ॥ चत्वारि च ततो गत्वा, नक्षत्रपटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधानां पटलं भवेत् ॥ ३ ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम्। त्रीणि त्रीणि च गत्वोवं, क्रमेण पटलं स्थितम् ॥ ४ ॥" बहुत्वं चात्र सर्वद्वीपसमुद्रवर्तिज्योतिश्चक्रापेक्षं मन्तव्यम् । यन्त्रं चात्रावधार्यम्तारा. | सूर्यः | चन्द्रः | नक्षत्र. | बुधः | शुक्रः | बृहस्पतिः मंगलः | शनिः अमीषामङ्कानां मीलने जातं दशोत्तरं ११० शतम् । इदं तूर्ध्वाधःप्रमाणम् ॥ ९३ ॥ अथ तिर्यक्तारकाणां प्रचारमाह इक्कारसजोअणसय, इगवीसिकारसाहिया कमसो । मेरुअलोगाबाहिं, जोइसचकं चरइ ठाइ ॥ १४ ॥ इक्कारस० । एकादशयोजनशतान्येकविंशत्यधिकानि मेरोः अबाधां-अन्तरं कृत्वा, एतावद्भिर्योजनैमरे दूरं विमुच्येत्यर्थः, चलं ज्योतिश्चक्रं मनुष्यलोके परिभ्रमति । तथैकादशयोजनशतान्येकादशाधिकान्यलोकाकाशस्याऽबाधयाऽचलं ज्योतिश्चक्रं तिष्ठति । शेषमेरुष्वपि संभावनेत्थमेव । इदं तु जम्बृद्दीपतारकापेक्षम्, चन्द्रसूर्यनक्षत्राणां तु
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy