SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकं मण्डलप्रकरणम् । ( ४९ ) सप्तषष्टिर्युगे । तेन युगे चन्द्रस्य दक्षिणायनानि सप्तषष्टिः, उत्तरायणान्यपि सप्तषष्टिः सर्वाणि युगे १३४ चन्द्रायणानि । तथा सूर्यस्य युगे दशायनानि, तत्र पञ्च दक्षिणायनानि पञ्चैवोत्तरायणानि । त्र्यशीत्यधिकशतदिनानामेकैकमयनं १८३, तद्दशगुणं युगं १८३० दिनप्रमाणम् । तथा सूर्यः सर्वाभ्यन्तरे मण्डले दिनमेकं चरति, सर्वबाह्येऽपि दिनमेकम् शेषेषु मण्डलेषु प्रवेशनिर्गमाभ्यां दिनद्वयम्, अतः प्रथमचरमदिनन्यूनत्वे सूर्यसंवत्सरे ३६६ दिनानि, स च पञ्चगुणितोऽष्टादशशतानि त्रिंशदधिकानि । युगस्य चादिः श्रावणसितप्रतिपदि उक्तं हि - " सावणबहुलपडिवए, बालवकरणे अभीइनक्खत्ते। सव्वत्थ पढमसमए, जुगस्स आई विआणाहि ॥ १ ॥ " सर्वत्रेति भरतैरावतविदेहेषु भाव्यम् । अवसर्पिण्यां षण्णामरकाणामप्यादिरत्रैव । विदेहेषु यद्यप्यरकाणामभावस्तथापि पञ्चवत्सरात्मकस्य युगस्य सद्भावात् । मासपञ्चकवर्षपञ्चकखरूपं श्रीमुनिचन्द्रसूरिकृतकालशतक - प्रवचनसारोद्धारादिग्रन्थेभ्योऽवसेयम् । दिनादिसंख्या तु यन्त्रकद्वयादवधार्या २९ ३२ ६२ ३० ६२ ३१ ६२ चन्द्रमास. सूर्यमास. नक्षत्रमास. २७ ६० २१ ६७ ६७ " ३१ १२१ १२४ अभिवर्धित मास. २ ३० ० ० ऋतुमास. ६१ दिनसंख्या. भागाः भागकरणांकाः पंचमासनाम. संख्या.
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy