SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) विनयकुशलविरचितं ४५ ॥ अथ तेषामपि सूर्याणां चारक्षेत्रतः सञ्चरतां कियद्दिनैस्तापक्षेत्र वर्धते हीयते च ? इत्याह एवं च सइ दसंसे, तेसिं पसंतनीहरंताणं । 6 हाय तेसीसएण दिवसा अणुक्रमसो || ४६ ॥ एवं ० । ' एवं ' पूर्वोक्तप्रकारे सति तेषां सूर्याणां मकरे सर्वबाह्यान्मण्डलान्मध्ये प्रविशतां कर्के च सर्वाभ्यन्तराद्वहिर्निस्सरतां दिवसानां त्र्यशीत्यधिकशतेनानुक्रमश एकको दशांशो वर्धते हीयते च । वृद्धिहानियोजनसंख्या दशमभागयोजनसंख्या च तत्तद्वीपसमुद्राणां मध्यबाह्यपरिध्यनुसारेण वाच्या ॥ ४६ ॥ अथ जम्बूद्वीपादन्यरवीणां मण्डलसंख्या मण्डलान्तरप्रमाणं चारक्षेत्रविष्कम्भमानं चाह सव्वेसि पि रवीणं, सव्वेसिं मंडलाण अन्नुन्नं दोजो अंतरालं, पंचसयदहुत्तरो चारो ॥ ४७ ॥ सव्वे० । सर्वेषां रवीणां चतुरशीत्यधिकशतसंख्यानां मण्डलानामन्तरं प्रत्येकं द्वे योजने, चारक्षेत्राविष्कम्भस्तु दशोत्तराणि पञ्चशतयोजनानि ज्ञेयानि । अष्टचत्वारिंशदेकषष्टिभागास्तु स्तोकत्वान्नोक्ताः । अथवा प्रथममण्डलस्यान्त्यमण्डलस्य वा चाराभावादष्टचत्वारिंशन्नोक्ताः, जम्बूद्वीपाधिकारे चोक्ताः परमार्थस्त्वेक एव ॥ ४७ ॥ अथ शेषचन्द्राणां चारक्षेत्र मानादिखरूपमाह इगससतिवन्ना, चंदा पंचनवसियाई । 2 अहिं भागेहि जो अमहियं मण्डलं ससिणो ||४८ || इग० । जम्बूद्वीपचन्द्राणामपि प्रत्येकं मण्डलानि पञ्चदशैव तेषां मण्डलानां भूमिरन्तरं च सातिरेकाणि पञ्चत्रिंशद्योजनानि ३५
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy