SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (२८) विनयकुशलविरचितं सारेण दशभागाः स्वबुद्ध्या विचार्याः ॥३८॥ अथोत्कृष्टदिवसे जम्बूद्वीपवर्तिनो मनुष्याः कियहरतः सूर्यमुदयन्तं पश्यन्ति ? इति गाथाहयेनाह एअस्स य रासिस्स य, तिगुणत्ते जो पुणो हवइ रासी । कक्कडचारो रविणो, उदयत्थमणेसु तस्सद्धा ॥ ३९ ॥ सीयालीससहस्सा, दो असया जोअणाण तेवहा । इगवीससद्विभागा, ककडमाइम्मि पिच्छ नरा ॥ ४० ॥ एअ० । 'एतस्य' अनन्तरोक्त ( स्य ) राशेः ३१५०८ ५४ त्रिगुणकरणेन यो राशिर्भवति ९४५२६ ४२ स रवेः कर्कसंक्रान्त्याद्यदिनसत्कश्चारो ज्ञेयः । उदयास्तसमये च ' तस्सद्ध ' त्ति तस्या त्प्रातरुद्गच्छन् सायमस्तमयंश्च सूर्यो दृश्यते ॥ ३९ ॥ तद्योजनान्याहसीआ० । सप्तचत्वारिंशत्सहस्राणि त्रिषष्टयधिके द्वे च शते एकविंशतिषष्टिभागाश्च ४७२६३ ११, एतावद्योजनेभ्यो दूरतः सर्वाभ्यन्तरे मण्डले सूर्यमुदयन्तमस्तमयन्तं च कर्काचदिने जम्बूद्वीपसत्कपूर्वविदेहभरतपश्चिमविदेहैरावतादिषु वासिनो नराः पश्यन्ति । यच्चेहोदयमानः सूर्यो भूमिलग्नो दृश्यते तत्तु दूरत्वात् । परं भूमितः सर्वत्रोच्चैम्त्वेन समो वर्तते । यदुक्तं भगवत्यामष्टमशतेऽष्टमोद्देशके-" जम्बूदीवे णं भंते ! सूरिआ उग्गमणमुहुत्तंसि मज्झंतिअमुहुत्तंसि अत्थमणमुहुत्तंसि सव्वत्थ उच्चत्तेण समा ? हंता गोअमा ! ” इत्यादि ॥ ४० ॥ अथोत्कृष्टदिवसे सूर्यस्य पश्चादग्रे च मिलितं कियत्तापक्षेत्रं स्यात् ? तदाह एअं चेव य दुगुणं, उभो पासेसु तावखित्तं तु । . एअं चेव य सव्वं, दट्ठवं बीअरविणो वि ॥ ४१ ॥ एअं० । 'एतद' अनन्तरोक्तं तापक्षेत्रप्रमाणं ४७२६३ ३३
SR No.022037
Book TitleMandal Prakaran
Original Sutra AuthorN/A
AuthorChaturvijay Muni
PublisherJain Atmanand Sabha
Publication Year1922
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy