SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ २३२-३३] पञ्चमोऽध्यायः ४६७ पुनरपि भावात् तदेवेदमिति प्रत्यभिज्ञायते । यद्यत्यन्तनिरोधाभिनवप्रादुर्भावमात्रमेव स्यात् ; स्मरणानुपपत्तेः तदधीनो लोकसंव्यवहारो विरुध्येत । ततः तद्भावेनाव्ययं तद्भावाव्ययम् नित्यमिति निश्चीयते। विरोध इति चेत् धर्मान्तराश्रयणात् ।। स्यान्मतम्-वियदेव न व्यति, उत्पद्यमान एव नोत्पद्यते इति विरोधः, ततो न युक्तमिति; तन्न; किं कारणम् ? धर्मान्तराश्रयणात् । यदि येन रूपेण व्ययोदयकल्पना तेनैव रूपेण नित्यता प्रतिज्ञायेत स्याद्विरोधः, जनकत्वापेक्षयव पितापुत्रव्यपदेशवत् , नन्तु धर्मान्तरसंश्रयणात । पुनरपि मिथ्यादर्शनाकुलितचेताः निरूपितमपि त्रितयात्मकत्वमप्रतिपद्यमान आहयद् व्येति उत्पद्यते च तत्सन्नित्यं चेत्यतिसाहसमेतत् दुरुपपादत्वात् कथं श्रद्धीयत इति ? अत्रोच्यते-श्रद्धेहि व्ययोत्पादवत्सु पर्यायेपु अव्यभिचारिणी सन्नित्यत्वे स्त इति । कुतः ? यस्माद् १० द्रव्यार्थिकपर्यायार्थिकसंभवे अन्यतरविवक्षावशात् यथोक्त उभे अपि अपितानर्पितसिद्धे ॥३२॥ धर्मान्तरविवक्षाप्रापितप्राधान्यमर्पितम् ।। अनेकात्मकस्य वस्तुनः प्रयोजनवशात् यस्य कस्यचिद्धर्मस्य विवक्षयां प्रापितप्राधान्यम् अर्थरूपमर्पितमुपनीतमिति यावत् ।। तद्विपरीतमनर्पितम् ।। प्रयोजनाभावात् सतोऽप्यविवक्षा भवति इत्युपसर्जनीभूतमन- १५ र्पितमित्युच्यते । अर्पितं चानर्पितं च अपितानर्पिते ताभ्यां सिद्ध सन्नित्यत्वे अपितानर्पितसिद्ध । तद्यथा-मृत्पिण्डः रूपिद्रव्यमित्यर्पितः स्यान्नित्यः तदर्थापरित्यागात् । अनेकधर्मपरिणामिनोर्थस्य धर्मान्तरविवक्षाव्यापारात रूपिद्रव्यात्मनाऽर्पणात् मृत्पिण्ड इत्येवमर्पितं पुदलद्रव्यं स्यादनित्यं तस्य पर्यायस्याध्रुवत्वात् । तत्र यदि द्रव्यार्थिकनयविषयमात्रपरिग्रहः; स्यात् व्यवहारलोपः तदात्मकवस्त्वभावात् । यदि च पर्यायाथिकनयगोचरमात्राभ्युपगमः स्यात् । लोकयात्रा न सिद्ध्यति २० तथाविधस्य वस्तुनोऽसद्भावात् । तावेकत्रोपसंहृतौ लोकयात्रासमाँ भवतः तदुभयात्मकस्य वस्तुनः प्रसिद्धः । इत्येवमर्पितानर्पितव्यवहारसिद्ध सन्नित्यत्वे । आह-सतोऽनेकनयव्यवहारतन्त्रत्वात् उपपन्ना भेदसंघातेभ्यः सतां स्कन्धात्मनोत्पत्तिः । इदं तु सन्दिमः-किं संघातः संयोगादेव द्वथणुकादिलक्षणो भवति, उत कचिद्विशेषोऽवध्रियते इति ? उच्यते-सति संयोगे बन्धादेकत्वपरिणामकात् संघातो निष्पद्यते । यद्यवमिदमुच्यतां कुतो न २५ खलु पुदलजात्यपरित्यागे संयोगे च भवति केषाश्चित् बन्धोऽन्येषां च नेति ? उच्चते-यस्मात्तेषां पुदलात्माऽविशेपेऽपि अनन्तपर्यायाणां परस्परविलक्षणपरिणामाहितसामर्थ्याद् भवन् प्रतीतः स्निग्धरूक्षत्वाद् बन्धः ॥३३॥ स्नेहपर्यायाविर्भावात् स्निह्यते स्मेति स्निग्धः ।१। बाह्याभ्यन्तरकारणवशात् स्नेहपर्याया- ३० विर्भावात् स्निह्यते स्मेति स्निग्धः । -रूक्षणाद् रूक्षः ।२। द्वितयनिमित्तवशात् रूक्षणात् रूक्ष इति व्यपदिश्यते । स्निग्धश्च रूक्षश्च स्निग्धरुक्षौ तयोर्भावः स्निग्धरूक्षत्वम् । स्निग्धत्वं चिक्कणत्वलक्षणः पर्यायः। तद्विपरीतः परिगामी रूजत्वम् । स्निग्धरूक्षत्वादिति हेतुर्निर्देशः। सामात उत्पादव्ययभागात्तदनित्यमित्यप्यवगम्यते । २ जनकत्वापेक्षयैव पिता पुत्रश्चेत्युक्ते विरोधः । ३ ननु मु०, द०, ता० । ४ द्रव्याशिक । ५ विवक्षायां मु० । ६ दत्तनिक्षेपादि । ७-बन्धः प्र-मु०, द० ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy