________________
श२२] पश्चमोऽध्यायः
४८१ नान्यभावापत्तिः सुखादिसमन्वयात् ; कथं तर्हि पूर्वभावस्यान्यभावापत्तिः परिणामः ? तथैव सुखाद्यवस्थानात् शब्दादिभावानुपपत्तिः प्रसजति, सा चानिष्टा, तस्मान पूर्वभावस्यान्यभावापत्तिः परिणामः।
किञ्च, अमावस्यापरिणामात् । 'यद्येनात्मना' नास्ति न तस्य तद्भावापत्तिः विद्यते । यथा अभावस्य भावात्मनाऽभावान्न तद्भावापत्तिः, एवं गुणानां स्थूलत्वेन अभावात् तद्भावापत्तिर- ५ युक्ता । अथास्ति तद्भावः ततः परिणामानुपपत्तिः तद्भावात् । येनात्मना यद्विद्यते तस्य न पुनस्तद्भावापत्तिः । नाभाव अभावात्मकत्वात् पुनरभावो भवति । एवमेकान्ते कारणस्योभयथा परिणामानुपपत्तेः अनेकान्त आश्रयणीयः-पर्यायार्थादेशात् स्यादन्यभावापत्तिः, द्रव्यार्थादेशात् स्यानान्यभावापत्तिः परिणाम इति । तथा द्रव्यार्थादेशात स्यादवस्थितस्य द्रव्यस्य परिणामः, पर्यायार्था--. देशात् स्यादनवस्थितस्येति । अथ का क्रियेति ? अत्रोच्यते
__..१० क्रिया परिस्पन्दात्मिका द्विविधा ।१६। द्रव्यस्य द्वितयनिमित्तवशात् उत्पद्यमाना परिस्पन्दात्मिकां क्रियेत्यवसीयते । सा द्विविधा पूर्ववत् प्रयोगविस्रसानिमित्ता । प्रायोगिकी :शकटादीनाम् । विस्रसानिमित्ता मेघादीनाम् ।
स्थितिग्रहणमिति चेत्न; परिणामावरोधात् ।२०। स्यादेतत्-यदि परिस्पन्दात्मिका क्रिया • इत्युच्यते स्थितेस्रहणं प्राप्नोति । गतिनिवृत्तिर्हि स्थितिरिति; तन्नः किं कारणम् ? परिणामावरो- १५ धात् । स्थितिर्हि परिणामेऽन्तर्भवति ।
परिणामग्रहर्णमेवास्तु इति चेत् । न भाववैविध्यण्यापनार्थत्वात् ।२१। स्यान्मतम्-यथा स्थितिः परिणामेऽन्तर्भवति तथा क्रियापि तत्रैवावरुध्यते इति परिणामग्रहणमेवैकमस्तु इति; तन्न किं कारणम् ? भाववैविध्यख्यापनार्थत्वात् । द्रव्यस्य हि भावो द्विविधः-परिस्पन्दात्मकः, अपरिस्पन्दात्मकश्च । तत्र परिस्पन्दात्मकः क्रियेत्याख्यायते, इतरः परिणामः, इत्येतत् ख्यापनार्थ पृथग- २० ग्रहणम्।
क्षेत्रप्रशंसाकालनिमित्तात् परत्वापरत्वानवधारणमिति चेत्, न; कालोपकारप्रकरणात् ।२२। स्यान्मतम्-क्षेत्रप्रशंसाकालनिमित्ते परत्वापरत्वे । तत्र क्षेत्रनिमित्त तावदाकाशप्रदेशाल्पबहुत्वापेक्षे । एकस्यां दिशि बहूनाकाशप्रदेशानतीत्य स्थितः परः, ततः अल्पानदीत्य स्थितोऽपरः । प्रशंसाकृते अहिंसादिप्रशस्तगुणयोगात् परो धर्मः, तद्विपरीतोऽधर्मोऽपरः इति । कालहेतुके शतवर्षः २५ परः, षोडशवर्षोऽपर इति । अतोऽर्थभेदात् परत्वापरत्वयोरनवधारणमिति; तन्नः किं कारणम् ? कालोपकारप्रकरणात् कालकृतेऽत्र परत्वापरत्वे गृह्यते, दूरासन्नदेशावस्थायिनोः कुमारस्थविरयोः, तपस्विचाण्डालयोः सन्निकृष्टदेशे 'चाण्डाले पर इति व्यवहारो दृश्यते, विप्रकृष्ट च "तपस्विनि अपर इति । ते एते परत्वापरत्वे कालकृते"इह गृह्यते।।
- वर्तनाधु पकारलिङ्गः कालः ॥२३॥ उक्ता वर्तनादयः उपकारा यस्याऽर्थस्य "लिङ्गं स ३० काल इत्यनुमीयते । तथा चोक्तम्-“येन मूर्तानामुपचयाश्चापचयाश्च स्वपयन्ते स कालः" [ ] इति ।
वर्तनाग्रहणमेषास्त्विति चेत् ; न; कालवैविध्यप्रदर्शनार्थत्वात् प्रपञ्चस्य ।२४। स्यान्मतम्वर्तनाग्रहणमेवास्तु कालास्तित्वख्यापनं तद्विकल्पत्वात् परिणामादीनामिति; तन्नः किं कारणम् ?
रूपादि । २ स्वरूपेण । ३ तस्याभावापत्तिः-मु०, द०, ब० । ४ स्थूलत्व। ५ सुवर्णाः पूर्वरूपेण उत्तररूपेण च। -णमेकमेवास्ति-मु०, २०, ५०। ७-ते परत्वापरत्वे ताव-मु०, ता० ।
सो इदमेवेत्यनिश्चयः। १ स्थविरचाण्डाले। १० कुमारे । ११ वर्तनादिसूत्रे । १२ ज्ञापकम् ।