SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श२२ ] पश्चमोऽध्यायः अनुदात्तत्त्वात्ताच्छीलिको वा ॥३॥ अथवा, 'वृत्तिरयमनुदात्तेत् , ततस्ताच्छीलिको युच् वर्तनशीला वर्तनेति । का पुनर्वर्तना ? __ प्रतिद्रव्यपर्यायमन्तींकसमया स्वसत्तानुभूतिर्वर्तना ।४। द्रव्यस्य पर्यायो द्रव्यपर्यायः, द्रव्यपर्यायं द्रव्यपर्यायं प्रति प्रतिद्रव्यपर्यायम, अन्तर्भात एकः समयोऽनया सा अन्तर्मतैकसमया, का पुनरसौ ? स्वसत्तानुभूतिः, उत्पादव्ययध्रौव्यक्यवृत्तिः सत्ता, न ततोऽन्या काचिदस्ति । ५ स्वा सत्ता स्वसत्ता, प्रतिनियता असाधारणीत्यर्थः, बुद्धयभिधानानुप्रवृत्तिलिङ्गेनानुमीयमाना सादृश्योपचारादेकापि सती जीवाजीवतद्भेदप्रभेदैः संवन्धमापद्यमाना विशिष्टशक्तिभिरेव संबध्यते । तस्या अनुभूतिः स्वसत्तानुभूतिर्वतनेत्युच्यते । एकस्मिन्नविभागिनि समये धर्मादीनि द्रव्याणि पडपि 'स्वपर्यायरादिमदनादिमद्भिरुत्पादव्ययध्रौव्यविकल्पैवर्तन्त इति कृत्वा तद्विषया वर्तना। . सा आनुमानिकी व्यावहारिकदर्शनात् पाकवत् ।। यथा व्यावहारिकस्य पाकस्य तण्डुलविक्लेदनलक्षणस्यौदनपरिणामस्य दर्शनादनुमीयते-अस्ति प्रथमसमयादारभ्य सूक्ष्मपाकाभिनिवृत्तिः प्रतिसमयमिति । यदि हि प्रथमसमये अग्न्युदकसन्निधाने कश्चित् पाकविशेषो न स्यात् , एवं द्वितीये तृतीये च न स्यादिति पाकाभाव एव स्यात् । तथा सर्वेपामपि द्रव्याणां स्वपर्यायाभिनिवृत्तौ प्रतिसमयं दरधिगमा निष्पत्तिरभ्युपगन्तव्या। तल्लक्षणः कालः ।६। सा वर्तना लक्षणं यस्य स काल इत्यवसेयः। समयादीनां क्रियाविशेषाणां समयादिनिवृत्त्यानां च पर्यायाणां पाकादीनां स्वात्मसद्भावानुभवनेन स्वत एव वर्तमानानां निर्वृत्तवहिरङ्गो हेतुः समयः । पाक इत्येवमादिस्वसंज्ञारूढिसद्भावे काल इत्ययं व्यवहारोऽकम्मान्न भवतीति तद्व्यवहारहेतुना अन्येन भवितव्यमित्यनुमेयः । आदित्यगतेरिति चेत् ; न; तद्गतावपि तत्सद्भावात् ।। स्यादेतत्-आदित्यगतिनिमित्ता २० द्रव्याणां वर्तनेति; तन्नः किं कारणम ? तदतावपि तत्सद्भावात् । सवितुरपि व्रज्यायां भूतादिव्यवहारविपयभूताया क्रियेत्येवं मढायां वर्तनादर्शनात् तद्धेतना अन्येन कालेन भवितव्यम् । आकाशप्रदेशनिमित्तेति चेत् : न; नां प्रत्यधिकरणभावाद्भाजनवत् ।। स्यादेतत्आकाशप्रदेशनिमित्ता वर्तना नान्यम्तद्धतुः कालोऽस्तीति; तन्नः किं कारणम् ? तां प्रत्यधिकरणभावात् भाजनवत् । यथा भाजनं तण्डुलानामधिकरणं न तु तदेव पचति, तेजसो हि स व्यापारः, २५ तथा आकाशमयादित्यगत्यादिवर्तनायामधिकरणं न तु तदव निवर्तयति । कालस्य हि स व्यापारः । .. सत्तात इति चेत् ; न: तस्या अप्यनुग्रहात् ।।। स्यान्मतम्-सत्ता नाम सर्वपदार्थानां साधारण्यस्ति तद्धतुका वननति; तन्न; किं कारणम् ? तम्या अप्यनुग्रहात् । कालानुगृहीतवर्तना हि सत्तेति ततोऽयन्यन कालन भवितव्यम। इव्यस्य स्वजात्यपरित्यागन प्रयोगविनसालक्षणो विकारः परिणामः।१०। द्रव्यस्य ३० चेतनस्येतरस्य वा द्रव्याथिकनयम्य अविवक्षातो न्यगभूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिकनयार्पणात् प्राधान्यं विभ्रता केनचिन पर्यायग प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः प्रयोगविस्त्रसालक्ष्मः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः पदलविकारः, तदनपेक्षा विक्रिया विस्त्रसा। तत्र परिणामी द्विविधः-अनादिरादिमांश्च । अनादि कसंस्थानमन्दराकारादिः । आदिमान प्रयो १ अस्येत् अनुदात्तसंज्ञात [?]| २ सत्यप्यश्वादिव्यतिकरे गोजात्यविनाभाविसत्ताज्ञानं गौरियं गौरियमिति शब्दानाम् । ३ जीवादिषु वर्तमानसत्तासामान्योपचारात् । ४ सत्ता। ५ अगुरुलघुत्वाद्यसंख्यातप्रदेशत्वादि । ६ ज्ञातुमशक्या । ७ किंविशिष्टानाम् । ८ अतीतानागतवर्तमान ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy