________________
श२] पञ्चमोऽध्यायः
४३६ तद्रञ्जकस्य नीलीद्रव्यस्यापि भेदोपपत्तेः। एकस्मिन्नपि पटे यन्मध्ये नीलीद्रव्यं न तत्प्रान्तयोः, यच्च प्रान्तयोः न तन्मध्ये इति भेदोऽभ्युपगन्तव्यः किमुत भिन्नेषु द्रव्येषु । नीलत्ववदिति चेत् ; न; तदपि साध्यसमम् । अथ मतमेतत्__दृशान्ताभावेऽपि एकत्वमस्य सिद्धमग्निवदिति चेत् ; न प्रतिज्ञाहानेः । ८ । यथा अग्नेरन्यस्मिन्नुष्णे दृष्टान्ते असत्यपि औष्ण्यम् । एवमसत्यपि एकस्मिन् अनेकसंबन्धिनि दृष्टान्ते ५ द्रव्यत्वस्य द्रव्येषु वृत्तिः सिद्ध्यतीति; तदपि नोपपद्यते प्रतिज्ञाहानेः। ननु दृष्टान्तो नास्तीति प्रतिज्ञाय दृष्टान्तं ब्रवतस्ते प्रतिज्ञा हीयते। किञ्च, युक्त्यभावेऽपि यदि द्रव्यत्वमेकमनेकसंबन्धीति मन्यते स्वत एव द्रव्यं द्रव्यमिति कस्मान्न प्रतिपद्यते ? समवायादिति चेत्न; तस्य प्रत्युक्तत्वात् ।
गुणसंद्रावो द्रब्यमिति चेत् ; न; एकान्ते दोषोपपत्तेः । । स्यादेतद्-गुणसंद्रावो द्रव्यमित्येतल्लक्षणमनवद्यम् । गुणैः संदूयते प्राप्यते गुणान्वा संद्रवति प्राप्नोति इति द्रव्यमिति; तन्नः किं १० कारणम् ? एकान्ते दोषोपपत्तेः। कथमिति चेत् ? उच्यते-गुणेभ्यो द्रव्यम् अन्यद्वा स्यात् , अनन्यद्वा ? यद्यनन्यत; कर्तृकर्मभेदाभावात् निर्देशो नोपपद्यते । अपि च, एकान्तानन्यत्वे हि गुणा एव वा स्युः, द्रव्यमेव वा। यदि गुणा एव; द्रव्याभावे तदविनाभाविनां गुणोनामपि निराधारत्वादभावः स्यात् । अथ द्रव्यमेव; एवमपि अलक्षणत्वात् खरविषाणत्वकल्पना द्रव्यस्य स्यात् । अथान्यत्वं गृह्यत एवमप्येकान्तेन पृथग्भावे स्वरूपशून्यत्वं स्यात् । अभ्युपगम्योच्यते १५ गुणैः संद्रयते द्रव्यमिति लक्षणं नोपपद्यते; गुणानां निष्क्रियत्वे द्रव्यं प्रत्याभिमुख्येन द्रवणाभावात । "दिक्कालावाकाशं च क्रियावद्भ्यो वैधात् निक्रियाणि । एतेन कर्माणि गुणाश्च व्याख्याताः निःक्रियाः।" [वैशे० द. ५।२।२१,२२] इति वचनात् । गुणान् संद्रवति इति च लक्षणं नोपपद्यते - निःक्रियद्रव्याणां गुणान् प्रति द्रवणाभावात् ।
किश्च, स्वतोऽसिद्धत्वात् । यथा वाटीपरिक्षेपादिलक्षणान् ग्रामादीन् स्वतःसिद्धान् देवदत्तः २० सिद्धः प्राप्नोति न तथा गुणाः स्वतःसिद्धाः सन्ति यान प्राप्नुयाद् द्रव्यम् ।
आह-पाकजदर्शनात् तत्सिद्धिः । पार्थिवेषु परमाणुषु अग्निसंयोगात् औष्ण्यापेक्षात् श्यामाधुच्छेदेन रक्ताद्यारम्भे च ननु प्राप्यते गुणैर्द्रव्यम् । उच्यते-ननु युतसिद्धत्वप्रसङ्गात् । यदि द्रव्यमवतिष्ठते रूपादयो विनश्यन्ति प्रादुर्भवन्ति च । ननु युतसिद्धा द्रव्यरूपादय इत्यासक्तम् । अथ अयुतसिद्धाः समवायसंबन्धात् इति मतम् ननु द्रव्यवत्तन्नित्यत्वप्रसाः । एवं सति २५ अयुतसिद्धिर्भवति-यदा रूपादयस्तदा द्रव्यं यदा द्रव्यं तदा रूपादय इति, नन्वेवं सति यथा द्रव्यं नित्यं तथा रूपादयोऽपि नित्याः यथा रूपादीनामनित्यत्वं तथा द्रव्यस्येति प्राप्तं तुल्यवृत्तित्वम् ।
किञ्च, विरोधात् पण्डितमूर्खवत् । यदि पण्डितो न मूर्खः अथ मूर्यो न पण्डितः तथा यदि समवायसंबन्धात् द्रव्यादयुतसिद्धाः रूपादयः न विनश्यन्ति न वोत्पत्स्यन्ते । अथ विनश्यन्त्युत्पद्यन्ते च" नाऽयुतसिद्धाः । अथवा, अयुतसिद्धाश्च नाम रूपादयः विनश्यन्ति उत्पद्यन्ते ३० च द्रव्यं चावतिष्ठत इति कुतस्त्योऽयं न्यायः। न च गुणैद्रूयते गम्यते उपलभ्यते तदिति द्रव्यम् , कस्मात् ? अर्थान्तरत्वात् । न हि घटेन पट उपलभ्यते "अन्यत्वात् । अथोपलभ्यते "द्रव्यगुणलक्षणभेदकल्पनाविरोधः ।
---, "गुणसन्द्रावो द्रव्यमिति । अन्वर्थ खल्वपि निर्वचनं गुणसन्द्रावो द्रव्यमिति।" -पात. महा० ५।१६।२-ति द्र-द०, मू०, ब०, ता०, श्र०।३ अथवान्य-श्र० । ४ वाद्रिप-मु०। वादपरि-ब०, २०, वाइपरि भा०२। वृत्तिः । ५ ते। ६ आमघटस्य । ७ कुण्डबदरवत् । ८ पटादि । ६ प्रोक्तं श्र०।१० सहि।" सहि । २ ननु गु-द० । न तु गु-ब०,मु०। ज्ञानार्थपोऽपि दोषमुत्पादयन्नाह । १३ ज्ञायते । १४ अनन्वयत्वात् मु०,९०,०। १५ समवायिकारणं द्रव्यम्, सामान्यवानसमवायिकारणम्, अस्पन्दात्मा गुण इति ।