SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १२] पश्चमोऽध्यायः ४३७ योगाद् द्रव्यं न पर्यायद्रवणादिति; तन्नः किं कारणम् ? तदभावात् । यथा दण्डसम्बन्धात् प्राक् देवदत्तो जात्यादिभिः सिद्धः। देवदत्तसंबन्धाच प्राग्दण्डो वृत्तत्वद्राधिमादिभिः प्रसिद्धः, ततस्तयोः संबन्धो युक्तः । न च तथा द्रव्यत्वयोगात् प्राक् द्रव्यमुपलभ्यते । यधुपलभ्येत संबन्धकल्पनम-... नर्थकं स्यात् । द्रव्यत्वमपि द्रव्यसंबन्धात्प्राङ् नोपलब्धस्वरूपम् , अतः तयोरसतोर्न युक्तः संबन्धः । अस्तित्वे चाभ्युपगम्यमाने पृथगनुपलभ्यमानशक्तिकयोः संबन्धेऽपि न तच्छक्तिप्रादुर्भावोऽस्ति, यथा ५ जात्यन्धयोः पृथगदर्शनशक्तिविरहात्, न योगेऽपि रूपालोकनशक्तिसंभवः। तथा द्रब्यद्रब्यत्वयोरपि द्रव्यप्रत्ययाभिधानोपत्त्यसामर्थ्य तत्संबन्धेऽपि न सामर्थ्यम् । तत्र द्रव्यं तावत् प्राक् द्रव्यत्वसमवायात् द्रव्यात्मनैव नात्मनि द्रव्यप्रत्ययाभिधानयोरुत्पादकम् । यदि स्यात् ; द्रव्यत्वसंबन्धस्य वैयर्थ्य स्यात् । तथा द्रव्यत्वमपि प्राग्द्रव्यसमवायात द्रव्यत्वात्मन्येव न द्रव्यप्रत्ययाभिधाननिमित्तमस्ति । माभूद् द्रव्यत्वस्य द्रव्येण समवायस्य वैयर्थ्यमिति अतस्तयोः पृथगनुपलभ्यमानसामर्थ्ययोः संबन्धे- १० ऽपि न तत्सामर्थ्यमस्ति इत्यवेमः न द्रव्यत्वयोगाद् द्रव्यमिति । ननु च द्रव्यत्वसंबन्धात् प्राक द्रव्यव्यपदेशो नास्ति, अस्ति तु तत् , ततः सतो द्रव्यत्वस्य युक्तः संबन्धः, नैषोऽस्ति परिहारः। कुतः ? सतोऽसत्त्वात् । नहि तद्व्यं स्वतोऽस्ति सत्तायोगादेव सत्स्यात् स च नास्तीत्युक्तम् । अथासतामपि संबन्धः स्यात् खरविषाणादीनामपि स्यात् । किश्च, द्रव्यत्वं नाम सर्वगतः पदार्थः, स यदि अतदात्मकेन संबन्ध्यते गुणकर्मभिः, खरविषाणादिभिश्च संबन्ध्येत, न चेष्यते संबन्धः । अथ १५ तदात्मकेनैव संबन्ध्यते द्रव्यत्वसंबन्धो व्यर्थः प्रागपि तदात्मकत्वात् , ततः स्वतो द्रव्यसिद्धिः। आह-समवायिकारणत्वाद् द्रव्यत्वेन द्रव्यमेव सम्बध्यते न गुणकर्माणि नापि खरविषाणादीनि, द्रव्यत्वस्य हि द्रव्यमेव समवायिकारणमिष्टं नेतराणि इति । उच्यते __न, स्वतोऽसिद्धत्वात् । यदि द्रव्यत्वादन्यद्रव्यं स्वतःसिद्ध स्यात् अतस्तत्समवायिकारणमिति व्यपदेशाह स्यात्, न च तत्स्वतःसिद्धं किश्चिदस्ति, अतः स्वतोऽसिद्धत्वात् न तत्समवा- २० यिकारणम् । अथ तत्स्वतोऽसिद्धमपि समवायिकारणं खरविषाणादिषु को मत्सरः ? अथाऽसत्त्वान्न समवायिकारणं तानि; नन्वसत्त्वाद् द्रव्यमपि द्रव्यत्वस्य न समवायिकारणम् । किञ्च, अतस्तत्सिद्धेः। यत एव द्रव्यत्वस्य समवायिकारणं द्रव्यं न गुणकर्माणि अतस्तद्र्व्यत्वं द्रव्य एव समवैति न गुणकर्मादिषु इति विवक्षितम्, ननु अत एव द्रव्यात्मैव द्रव्यत्वम् , आभ्यन्तरोऽर्थो ऽनादिपारिणामिकः द्रव्यापरित्यागी न द्रव्याद् बहिरन्यः सामान्य- २५ विशेषाख्यः इत्येतत्सिद्ध्यति । आह-विशेषोपलब्धेर्द्रव्यमेव समवायिकारणं द्रव्यत्वस्य । को विशेषः ? आश्रयभावः, यस्माद् द्रव्यमितेरषां पदार्थानामाधारः उच्यते-न द्रव्यमाश्रयः स्वतोऽसिद्धत्वात् । लोके स्वतःसिद्ध आधेयानामाश्रयो भवति यथा घंटो जलादीनां न तथा द्रव्यत्वात् पृथक् द्रव्यं स्वतःसिद्धमस्ति यदाधारो द्रव्यत्वस्येति व्यपदिश्येत । किश्च, द्रव्याभिधानानुपपत्तिश्च । ४। यस्य वादिना द्रव्यत्वयोगात् द्रव्यमित्यभिमतं तस्य । द्रव्यमित्यभिधानं नोपपद्यते। कथमिति चेत् ? उच्यते-इहाऽभेदेन वा व्यपदेशः स्यात् , भेदेन वा ? यदि अभेदेन व्यपदेशः; यथा यष्टिसहचरितः पुरुषो यष्टिरित्युच्यते तथा द्रव्यत्वसहचरितं द्रव्यत्वमिति व्यपदिश्येत न द्रव्यमिति । अथ मतं द्रव्यत्वस्य द्रव्यत्वमित्यभिधानमस्ति ३५ द्रव्यमिति च, तेन द्रव्यत्वेन द्रव्यमित्यमिधीयमानेन योगाद् द्रव्यमिति; तदिदमसिद्धमसिद्धन सहजायमानस्य । २ द्रव्यत्वमात्रेणैव द्रव्यग्यपदेशमन्तरेण विद्यमानस्य । ति चेत् । . प्रथमाध्याये । ५ गुणकर्मणी त०। ६ द्रव्यत्वम् ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy