SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २० [ १०११-२ सप्तकर्मप्रकृतीः क्षयमुपनीय क्षायिकसम्यग्दृष्टिर्भूत्वा चारित्रमोहमुपशमयितुमुपक्रमते । ततोऽथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च कृत्वा उपशमकश्रेणिमारुह्या पूर्व करणोपशमक गुणस्थानव्यपदेशमनुभूय तत्राभिनवशुभाभिसन्धितनूकृतपापकर्मप्रकृतिस्थित्यनुभागः विवर्द्धितशुभकर्मानुभवः अनिवृत्तिबादरसाम्परायोपशमकगुणस्थानमधिरुह्य नपुंसक वेदस्त्री वेदनो कषायषट्कपुंबेदाप्रत्याख्या५ नक्रोधद्वयमायाद्वयलोभद्वय क्रोधमानसंज्वलनसंज्ञिकाः प्रकृतीः क्रमेणोपशमय्य ततः सूक्ष्मसाम्परायप्रथमसमये मायासंज्वलनमुपशमं नीत्वा लोभसंज्वलनं तनूकृत्य सूक्ष्मसाम्परायोपशमकाख्यामास्कन्द्य ततः उपशान्तकषायप्रथमसमये लोभसंज्वलने चोपशमं गते सर्वमोहप्रकृत्युपशमात् उपशान्तकषायव्यपदेशभाग्भवति । आयुषः क्षयात् म्रियते । अथवा पुनरपि कषायानुदीरयन् प्रतिनिवर्त्तते । स एव वाऽन्यो वा विशुद्धाध्यवसायानुपरतोत्साहः पूर्ववत् क्षायिकसम्यग्दृष्टिर्भूत्वा १० कर्मविशुद्ध्या महत्या विशुद्धयन् क्षपकश्रेणीमनुप्रपद्यं तैरेव करणैस्त्रिभिः पूर्ववदपूर्वकरण क्षपकता - माश्लिष्य तत ऊर्ध्वं कषायाष्टकं नष्टं कृत्वा नपुंसकवेदं नाशमापाद्य स्त्रीवेदमुन्मूल्य नोकषायषट्कं १५ वेदे प्रक्षिप्य क्षपयित्वा पुंवेदं क्रोधसंज्वलने क्रोधसंज्वलनं मानसंज्वलने मानसंज्वलनं मायासंज्वलने मायासंज्वलनं च लोभसंज्वलने क्रमेण क्रमेण बोदरकृष्टिविभागेन विलयमुपनीय अनिवृत्तिबादरसाम्परायक्षपकभावमवाप्य लोभसंज्वलनं तनूकृत्य सूक्ष्मसाम्परायक्षपकमनुभूय निरवशेषं मोहनीयं निर्मूलकाषं कषित्वा क्षीणकषायतामधिरुह्य अवतारितमोहनीयभारः उपान्तिमे समये निद्राप्रचले प्रलयमुपनीय पश्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां पञ्चानामन्तरायाणां"चान्तमन्ते समुपगम्य तदनन्तरं ज्ञानदर्शनस्वभावं केवलपर्याय मप्रतर्क्सविभूतिविशेषं निःसपत्नमवाप्य निरुपलेपः कमलमिवामलः साक्षात्त्रिकालसर्वद्रव्यपर्यायस्वभावज्ञः सर्वत्राप्रतिहतदर्शनः अवाप्तनिरवशेषपुरुषार्थः जलधरनिरोधकालातीतस्वकिरणकलापसौम्यदर्शनस्तारकाधिपतिरिव ज्वलितमूर्तिः केवली भवति । २५ ६४० ३० तत्त्वार्थवार्तिके आह–व्याख्यातं प्रतिबन्धविनिर्मुक्तसम्यक्त्व दर्शनानन्तवीर्यसमन्वितं केवलम्, तदात्मलाभश्च सकलकर्मोच्छेदहेतुरभ्युपगतः । अथ किंलक्षणः कस्माच्च हेतोर्मोक्षो भवतीत्युभयमभिधीयतामिति ? अत्रोच्यते तस्य खलु भगवतः केवलपर्यायलब्धात्मलाभस्य विग्रहवतः स्वप्रभावार्जितानन्तैश्वर्य भाजः पूर्वं दग्धकर्म चतुष्टयस्याऽप्रच्युतवेद्यनामगोत्रायुषश्च — बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥ २ ॥ मिथ्यादर्शनादिहेत्वभावादभिनवकर्मादानाभाषः |१| मिथ्यादर्शनादीनां पूर्वोक्तानां कर्मातूनां निरोधे कारणाभावात् कार्याभाव इत्यभिनवकर्मादानाभावः । पूर्वोदित निर्जराहेतुसन्निधाने चार्जितकर्मनिरासः ॥ २ । पूर्वोदितानां निर्जराहेतूनां सन्निधानेऽर्जितस्य च कर्मणो निरासो भवति । ताभ्यां बन्धहेत्वभावनिर्जराभ्यामिति हेतुलक्षणविभक्तिनिर्देशः, ततो भवस्थितिहेतुसमी कृतशेषकर्मावस्थस्य युगपदात्यन्तिकः प्रत्येतव्यः " कृत्स्नकर्मविप्रमोक्षो मोक्षः । १ वेदकसम्यग्दृष्टिः उपशमश्रेण्यनारोहको वा चपकश्रेण्यारूढ इत्यर्थः श्र० टि० । २ अभिमुखो भूत्वा - श्र० टि० । ३ पुंवेदरूपेण कृत्वेत्यर्थः - श्र० टि० । ४ स्थूलकर्षण - श्र० टि० । ५ चान्तसमये स-मु०, द०, ब०, ज०, ता०, श्रं, । ६ अङ्गीकृतः - श्र० टि० । ७ मोक्षः - श्र० टि० । ८ 'कृत्स्नकर्मविप्रमोक्षो मोक्षः ' इति नास्ति ता०, श्र०, मू० ज०, ब०, द० भा० १, २ । केवलं मुद्रितप्रतावेव विद्यते । ६ विरोधिकामु०, दु०, ब०, ज० । १० ता०, न०, मू०, ज० द० प्रतिषु अस्य पृथक् सूत्रत्वेनोल्लेखः ।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy