SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [६३६ आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥ ३६ ॥ 'विचितिर्विवेको विचारणा विचयः ।। विचितिर्विचयो विवेको विचारणेत्यनर्थान्तरम् । तदपेक्षया आज्ञादीनां कर्मनिर्देशः ।२। तं विचयभावमपेक्ष्याज्ञादीनां कर्मनिर्देशः क्रियते। आज्ञा चापायश्च विपाकश्च संस्थानं च आज्ञापायविपाकसंस्थानानि, तेषां विचय आज्ञापायविपा५ कसंस्थानविचयः, तदर्थमाज्ञापायविपाकसंस्थानविचयाय। अधिकागत् स्मृतिसमन्वाहारसंबन्धः ।३। स्मृतिसमन्वाहार इत्यनुवर्तते, तेन प्रत्येकमभिसंबन्धो भवति-आज्ञाविचयाय स्मृतिसमन्वाहार इत्यादि। तत्रागमप्रामाण्यादर्थावधारणमाशाविचयः।४। उपदेष्टुरभावात् मन्दबुद्धित्वात् कर्मोदयात् सूक्ष्मत्वाच्च पदार्थानां हेतुदृष्टान्तोपरमे सर्वज्ञप्रणीतमागमं प्रमाणीकृत्य 'इत्थमेवेदं नान्यथा वादिनो १० जिनाः' इति गहनपदार्थश्रद्धानादर्थावधारणमाज्ञाविचयः। "आशाप्रकाशनार्थो वा ।। अथवा, सम्यग्दर्शनविशुद्धपरिणामस्य विदितस्वपरसमयपदार्थनिर्णयस्य सर्वज्ञप्रणीतानाहितसौक्ष्म्यान् अस्तिकायादीनानवधार्य एवमेते इत्यन्यं प्रति पिपादयिषतः कथामार्गे श्रुतज्ञानसामर्थ्यात् स्वसिद्धान्ताविरोधेन हेतुनयप्रमाणविमर्दकर्मणा ग्रहणसहिष्णून् कृत्वा प्रभाषयतः तत्समर्थनार्थस्तर्कनयप्रमाणयोजनपरः स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादा१५ ज्ञाविचय इत्युच्यते। सन्मार्गापायचिन्तनमपायषिचयः ।६। मिथ्यादर्शनपिहितचक्षुपाम् आचारविनयाप्रमादविधयः संसारविवृद्धये भवत्यविद्याबाहुल्यात् अन्धवत् । तद्यथा जात्यन्धा बलवन्तोऽपि सत्पथात्प्रच्युताः कुशलमार्गादेशकेनाननुष्ठिताः नीचोन्नतशैलविषमोपलकठिनस्थाणु निहितकण्टकाकुला टवीदुर्गपतिताः परिस्पन्दवन्तोऽपि न 'तत्त्वमार्गमनुसर्तुमर्हन्ति देशकाभावात् तथा सर्वज्ञप्रणी२० तमार्गाद्विमुखा मोक्षार्थिनः सम्यङ्मार्गापरिज्ञानात् सुदूरमेवापयन्तीति सन्मार्गापायचिन्तनमपायविचयः। असन्मार्गापायसमाधानं वा ७। अथवा, मिथ्यादर्शनाकुलितचेतोभिः प्रवादिभिः प्रणीतादुन्मार्गात् कथनाम इमे प्राणिनोऽपेयुः, अनायवनसेवापायो वा कथं स्यात् पापकरणवचनभावना विनिवृत्तिर्वा कथमुपजायते इत्यपायार्पितचिन्तनमपायविचयः । २५ कर्मफलानुभवविवेकं प्रति प्रणिधानं विपाकविचयः।। कर्मणां ज्ञानावरणादीनां द्रव्यक्षेत्रकालभवभावप्रत्ययफलानुभवनं प्रति प्रणिधानं विपाकविचयः । तद्यथा मिथ्यादर्शनैकद्वित्रिचतुरिन्द्रियजात्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणाख्यानां दशानां कर्मप्रकृतीनां प्रथमगुणस्थाने उदयो नोर्ध्वम् । अनन्तानुवन्धिक्रोधमानमायालोभानां प्रथमद्वितीयगुणस्थानयोरुदयो नोर्ध्वम् । सम्यमिथ्यात्वस्य सम्यमिथ्यादृष्टौ उदयो नोवं नाधः। अप्रत्याख्यानक्रोधमानमायालोभनरकदेवायुनरकदेवगतिवैक्रियिकशरीराङ्गोपाङ्गानुपूर्व्यचतुष्कदुर्भगानादेयायशस्कीर्तिसंज्ञानां सप्तदशानां कर्मप्रकृतीनामुदयोऽसंयतसम्यग्दृष्ट्यन्तेषु नोपरि । चतुर्णामानुपूर्व्याणां सम्यमिथ्यादृष्टावुदयो नास्ति शेषाणामस्ति । प्रत्याख्यानक्रोधमानमायालोभतिर्यगायुस्तिर्यग्गत्युद्योतनीचैर्गोत्रसंज्ञानामष्टानां कर्मप्रकृतीनां विपाकः संयतासंयतान्तेपु नोपरि । निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धि प्रमत्ताप्रमत्तसंयतस्य वि-मु०, ता०, १०, मू०, आ०, २०, २०, ज० । भा० । प्रतावेव नास्ति । २ पदार्थान् अस्तिकायादीनित्यर्थः-श्र.टि.। ३ गुणाः-१० टि०।४-निचितक-ता०, श्र०५ न च मामु०,९०, ब० जान नीचोलतशैलमार्ग-मु० शुद्धिपत्रे। ६ असन्मार्गापायचिन्तनमपायविनयः अस-मु०। ७ उत्सर्गेण प्राप्तावपवादविधिमाह-श्र० टि०।.
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy