SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ६।१०-११] नवमोऽध्यायः ६१३ चरितदर्शनाभावः, आदित्यस्य प्रकाशाभावे प्रतापाभाववत् , तस्मादज्ञानपरीषहेऽवरोधः । यद्येवं श्रद्धानदर्शनमपि ज्ञानाविनाभावीति प्रज्ञापरीषहे तस्यान्तर्भावः प्राप्नोतीति; नैष दोषः; प्रज्ञायां सत्यामपि कचित्तत्त्वार्थश्रद्धानाभावाद् व्यभिचारोपलब्धेः। ___ आह-उपपादितं परीषहजयात् संवरो भवतीति । इदमुच्यतां किमेते सर्वे संसारमहार्णवादुत्तितीर्षन्तममुं प्रवज्यामभ्युपगतमभिद्रवन्ति उत कश्चित्प्रतिविशेष इति ? अत्रोच्यते-अमी ५ व्याख्यातलक्षणाः क्षुधादयश्चारित्रान्तराणि प्रति भाज्याः, नियमेन पुनरनयोः प्रत्येतव्याः सूक्ष्मसाम्परायच्छद्मस्थवीतरागयोश्चतुर्दश ॥१०॥ चतुर्दशवचनादन्याभावः ।। चतुर्दशेति वचनादन्येषां परीषहाणामभावो वेदितव्यः । कुतः ? संख्याविशेषपरिग्रहस्य नियमार्थत्वात्-चतुर्दशैव नान्ये इति । समसाम्पराये नियमानुपपत्तिमोहोदयादिति चेत् ; न; सन्मात्रत्वात् ।२। स्यान्मतम्- १० युज्यते वीतरागछद्मस्थे निरवशेषमोहनीयस्योपशमात् क्षयाच्च तत्कृतवक्ष्यमाणपरीषहाष्टकोभावाच्चतुर्दशसंख्यानियमः सूक्ष्मसाम्पराये तु मोहोदयंसद्भावाश्चतुर्दशेति नियमो नोपपद्यते इति; तन्न; किं कारणम् ? सन्मात्रत्वात् । तत्र हि केवलो लोभसज्वलनकषायोदयः, स चात्यन्तसूक्ष्मस्ततो वीतरागछद्मस्थकल्पत्वाच्चतुर्दशेति नियमस्तत्रापि युज्यते। तत एव परीषहाभाव इति चेत् ;न; बाधाविशेषोपरमेऽपि 'तद्वावस्याचिख्यासितत्वात् १५ सर्वार्थसिद्धस्य सप्तमीगमनसामर्थ्यवत् ।। अथ मतम्-तत एव तयोः परीषहाभावः । कुत एव ? मोहोदयाभावात , मन्दोदयाच्च । यस्य हि सुधादिवेदनाप्रकर्षादयस्तस्य तत्सहनात् परीषहजयो भवति । न च मोहोदयबलाधानाभावे वेदनाप्रभवोऽस्ति, तदभावात् सहनवचनं भक्तिमात्रकृतमितिः तन्नः किं कारणम् ? तद्भावस्याचिख्यासितत्वात् । यथा सर्वार्थसिद्धदेवस्यानुपरतसद्वेद्योदयप्रकर्षस्यापि सप्तमपृथिवीगमनसामर्थ्य न हीयते तथा वीतरागच्छद्मस्थस्य कर्मोदयसद्भावकृत- २० परीषव्यपदेशो युक्तिमवतरति । ____ आह-यदि शरीरवत्यात्मनि परीषहसन्निधानं प्रतिज्ञायते, अथ भगवत्युत्पन्नकेवलज्ञाने कर्मचतुष्टयफलानुभवनवशवर्त्तिनि कियन्त उपनिपतन्तीति ? अत्रोच्यते- तस्मिन्पुनः एकादश जिने ॥११॥ 'कैश्चित्कल्प्यन्ते' इति वाक्यशेषः । २५ वेदनीयोदयभावात् बुधादिप्रसङ्ग इति चेत् ;न; घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् ।। स्यान्मतम्-घातिकर्मप्रक्षयानिमित्तोपरमे सति नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनालाभसत्कारपुरस्कारप्रज्ञाशानदर्शनानि मा भूवन् , अमी पुनवेदनीयाश्रयाः खलु परीषहाः प्राप्नुवन्ति भगवति जिने इति; तन्नः किं कारणम् ? घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् । यथा विषद्रव्यं मन्त्रौषधिबलादुपक्षीणमारणशक्तिकमुपयुज्यमानं न मरणाय कल्प्यते ३० तथा ध्यानानलनिर्दग्धघातिकर्मेन्धनस्यानन्ताप्रतिहतज्ञानादिचतुष्टयस्यान्तरायाभावान्निरन्तरमुपचीयमानशुभपुगलसन्ततेर्वेदनीयाख्यं कर्म सदपि प्रक्षीणसहायबलं स्वयोग्यप्रयोजनोत्पादनं प्रत्यसमर्थमिति क्षुधाद्यभावः, तत्सद्भावोपचाराद् ध्यानकल्पनवत् । अथवा, नायं वाक्यशेषः 'एका १-येति नि-मु०, द०, ब०, ज०। २ दर्शनमोहनीये अदर्शनं चारित्रमोहे सप्त-श्र. टि.। ३-स्याविरध्यासि-मु०, द०, ब० । -स्याविरन्यासि-ज०। ४ अघाति-श्र. टि०। ५ वेदनीये शेषा इत्यत्र वक्ष्यमाणाः क्षुदादयः-ता० टि०।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy