SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ६०६ तत्त्वार्थवार्तिके [ ७ स्त्रीवेदपुंवेदयोरसंज्ञिपन्चेन्द्रियादयः अनिवृत्तिबादरसाम्परायिकान्ताः । नपुंसकवेदे एकेन्द्रियप्रभृतयः अनिवृत्तिबादरसाम्परायिकान्ताः । नारकाश्चतुर्पु स्थानेषु शुद्धे नपुंसकवेदे । तिर्यञ्च एकेन्द्रियादयः चतुरिन्द्रियान्ताः शुद्धे नपुंसकवेदे । असंज्ञिपञ्चेन्द्रियादयः संयतासंयतान्ताः तिर्यचत्रिषु वेदेषु । मनुष्याः त्रिषु वेदेषु मिथ्यादृष्ट्यादयः अनिवृत्तिबादरसाम्परायिकावसानाः । ५ ततः परे मनुष्या अवेदाः । देवाश्चतुर्ष स्थानेषु स्त्रीपुंवेदयोः ज्ञेयाः। क्रोधमानमायासु एकेन्द्रियादयः अनिवृत्तिबादरसाम्परायिकान्ताः। लोभकषाये त एव सूक्ष्मसाम्परायिकान्ताः। ततः परे अकषायाः। मत्यज्ञानश्रताज्ञानयोरेकेन्द्रियादयः सासादनसम्यग्दृष्ट्यन्ताः, विभङ्गज्ञाने संज्ञिमिथ्यादृष्टयो वा सासादनसम्यग्दृष्टयो वा पर्याप्तका भवन्ति नाऽपर्याप्तकाः । सम्यमिथ्यादृष्टयः त्रिषु १० ज्ञानेषु अज्ञानमिश्रेषु वर्तन्ते, कारणसदृशत्वात् कार्यस्य । मतिश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्टि प्रभृतयः क्षीणकषायवीतरागछद्मस्थान्ताः । मनःपर्ययज्ञाने प्रमत्तसंयतादयः क्षीणकषायवीतरागछद्मस्थान्ताः । केवलज्ञाने द्वे गुणस्थाने सयोगायोगिसंज्ञे। सामायिकछेदोपस्थापनशुद्धिसंयमयोः प्रमत्तसंयतादयः अनिवृत्तिबादरसाम्परायिकान्ताः । परिहारशुद्धिसंयमे द्वे गुणस्थाने प्रमत्ताप्रमत्तलक्षणे। सूक्ष्मसाम्परायसंयमे एकमेव गुण१५ स्थानं सूक्ष्मसाम्परायशुद्धिसंयमाख्यम् । यथाख्यातविहारशुद्धिसंयमे चत्वारि गुणस्थानानि उप शान्तकषायक्षीणकषायसयोग्ययोगसंज्ञानि । संयमासंयमे एकमेव गुणस्थानं संयतासंयताख्यम् । असंयमे चत्वारि गुणस्थानान्याधानि । चक्षुर्दर्शने चतुरिन्द्रियादयः क्षीणकषायवीतरागछद्मस्थान्ताः । अचक्षुर्दर्शने एकेन्द्रियादयः क्षीणकषायवीतरागछद्मस्थान्ताः । अवधिदर्शने असंयतसम्यग्दृष्ट्यादयः क्षीणकषायान्ताः। २० केवलदर्शने द्वे गुणस्थाने अन्ते। __ आद्यासु तिसृषु लेश्यासु एकेन्द्रियादयः असंयतसम्यग्दृष्टयन्ताः । तेजःपद्मलेश्ययोः संशिमिथ्यादृष्टिप्रभृतयः अप्रमत्तावसानाः। शुक्ललेश्यायां संझिमिथ्यादृष्टिप्रभृतयः सयोगिकेवल्यन्ताः। अलेश्या अयोगकेवलिनः। भव्यत्वे चतुर्दशापि गुणस्थानानि सन्ति । अभव्यत्वे प्रथममेव । क्षायिकसम्यक्त्वे असंयतसम्यग्दृष्ट्यादयः अयोगकेवल्यन्ताः। वेदकसम्यक्त्वे असंयतसम्यग्दृष्टयादयः अप्रमत्तान्ताः । औपशमिकसम्यक्त्वे असंयतसम्यग्दृष्टयादयः उपशान्तकषायान्ताः । सासादनसम्यक्त्वसम्यमिथ्यात्वमिथ्यात्वेष एकमेव प्रत्येकम् । नारकेष प्रथमायां पृथिव्यां क्षायिकवेदकौपशमिकसम्यक्त्वा असंयतसम्यग्दृष्टयः । इतरासु भूमिषु वेदकौपशमिकसम्यक्त्वाः । तियच असंयतसम्यग्दृष्टिस्थाने क्षायिकवेदकौपशमिकसम्यक्त्वानि सन्ति। संयतासंयतस्थाने क्षायिकसम्यक्त्वं नास्ति इतरद् द्वयमस्ति भोगभूमावेवोत्पादात् । तिरश्वीषु उभयोरपि स्थानयोः क्षायिकसम्यक्त्वं नास्ति, मनुष्यस्य क्षपणामारब्धवतः पुरुषलिङ्गेनैव वृत्तः, इतरद् द्वितयमस्ति । मनुष्येषु असंयतसम्यग्दृष्टिसंयतासंयतसंयतस्थानेषु क्षायिकवेदकौपशमिकसम्यक्त्वानि सन्ति । भवनवासिव्यन्तरज्योतिष्कदेवेषु तहेवीषु सौधर्मेशानकल्पवासिदेवीषु चाऽसंयतसम्यग्दृष्टिस्थाने क्षायिकसम्यक्त्वं नास्ति इतरद् द्वितयमस्ति । सौधर्मादिषु उपरिमप्रैवे. ३५ यकान्तेषु क्षायिकवेदकौपशमिकसम्यक्त्वानि सन्ति । अनुदिशानुत्तरविमानवासिदेवेषु क्षायिकवेदकसम्यक्त्वे स्तः, औपशमिकं चास्ति उपशमश्रेण्यां मृतानां तत्संभवात् । संज्ञित्वे संज्ञिमिथ्यादृष्टयादयः क्षीणकषायान्ताः । असंज्ञित्वे एकेन्द्रियादयः असंज्ञिपञ्चेन्द्रियान्ताः। तदुभयाभावे द्वे गुणस्थाने अन्त्ये । -रविशु-मु०, २०, २०, ज० । पायादयः अप्रमत्तान्ताः थ्यात्वमिथ्यात्वेषु एकमनरास भूमिषु
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy