SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ५६० तत्त्वार्थवार्तिके [१ परिप्राप्तसंयमः प्रमादवान् प्रमत्तसंयतः।१७। अनन्तानुबन्धिकषायेषु क्षीणेष्वक्षीणेषु वा प्राप्तोदयक्षयेषु अष्टानां च कषायाणां उदयक्षयात् तेषामेव सदुपशमात् सज्वलननोकषायाणाम् उदये संयमलब्धिर्भवति । तन्मूलसाधनोपपादितोपजननं बाह्यसाधनसन्निधानाविर्भावमापद्यमानं प्राणेन्द्रियविषयभेदात् द्वितयीं वृत्तिमास्कन्दन्तं संयमोपयोगमात्मसात्कुर्वन् पञ्चदशविधप्रमाद५ वशात् किश्चित्प्रस्खलितचारित्रपरिणामः प्रमत्तसंयत इत्याख्यायते । प्रमादविरहितोऽप्रमत्तसंयतः ।१८। पूर्ववत् संयममास्कन्दन् पूर्वोक्तप्रमादविरहात् अविचलितसंयमवृत्तिः अप्रमत्तसंयतः समाख्यायते। इत ऊर्ध्व गुणस्थानानां चतुर्णा द्वे श्रेण्यौ भवतःउपशमकश्रेणी क्षपकश्रेणी चेति । यत्र मोहनीयं कर्मोपशमयन्नात्मा आरोहति सोपशमकश्रेणी । यत्र तत्क्षयमुपगमयन्नुद्रच्छति सा क्षपकश्रेणी। अपूर्वकरणपरिणाम उपशमकः क्षपकश्चोपचारात् ।।९। प्राग्व्याख्यातोऽपूर्वकरणपरिणामः, तद्विशुद्धिवशेन श्रेणीमारोहयमपूर्वकरण इति व्यपदेशमश्नुते । तत्र कर्मप्रकृतीनां नोपशमो नापि क्षयः किन्तु पूर्वत्रोत्तरत्र च उपशमं क्षयं वाऽपेक्ष्य उपशमकः क्षपक इति च घृतघटवदुपचर्यते। अनिवृत्तिपरिणामवशात् स्थूलभावेनोपशमकः क्षपकश्वानिवृत्तिबावरसाम्परायौ ।२०। १५ पूर्वोक्तोऽनिवृत्तिपरिणामः, तद्वशात् कर्मप्रकतीनां स्थलभावेनोपशमकः क्षपकश्चानिवृत्तिबादरसाम्परायाविति भाष्येते । तत्र उपशमनीयाः क्षपणीयाश्च प्रकृतय उत्तरत्र वक्ष्यन्ते । सूक्ष्मभावेनोपशमात् क्षपणाच्च सूक्ष्मसाम्परायौ ।२१। साम्परायः कषायः, स यत्र सूक्ष्मभावेनोपशान्ति क्षयं च आपद्यते तो सूक्ष्मसाम्परायौ वेदितव्यौ । सर्वस्योपशमात् क्षपणाच्च उपशान्तकषायः क्षीणकषायश्च ।२२। सर्वस्य मोहस्योप. २० शमात् क्षपणाच उपशान्तकषायः क्षीणकषाय इति च व्यपदेशमहतः । घातिकर्मक्षयादाविर्भूतज्ञानाद्यतिशयः केपली ।२३। घातिकर्मणामत्यन्तक्षयात् आविर्भूतस्वभावाऽचिन्त्यकेवलज्ञानाद्यतिशयविभूतिर्भगवान् केवलीत्यभिलप्यते । स द्विविधो योगभावाभावभेदात् ।२४। स केवली द्विधा भिद्यते। कुतः ? योगभावाभावभेदात्-योगवान् सयोगीति गीयते तदभावादयोगीति च । तत्र मिथ्यात्वप्रत्ययस्य कर्मणः तदभावे संवरः शेषे ॥२५॥ तत्र मिथ्यात्वप्राधान्येन यत्कर्मास्रवति तनिरोधात् शेषे सासादनसम्यग्दृष्ट्यादौ तत्संवरो भवति । किं पुनस्तत् ? मिथ्यात्वनपुंसकवेदनरकायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्ड संस्थानाऽसंप्राप्तसृपाटिकासंहन - ननरकगतिप्रायोग्यानुपूर्व्याऽऽतपस्थावरसूक्ष्माऽपर्याप्तकसाधारणशरीरसंज्ञकषोडशप्रकृतिलक्षणम् । असंयमत्रिविधोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् ।२६। असंयमस्त्रिइ. विधो वेदिव्यः । कुतः ? अनन्तानुबन् तत्प्रत्ययस्य तदभावे संवरः ।२७१ तत्प्रत्ययस्य कर्मणः तदभावे संवरोऽवसेयः । तद्यथानिद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धधनन्तानुबन्धिक्रोधमानमायालोभस्त्रीवेदतिर्यगायुस्तिर्यग्गतिचतुः - . संस्थानचतुःसंहननतिर्यग्गतिप्रायोग्यानुपूर्योद्योताऽप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनीचैर्गोत्र - संज्ञकानां पश्चविंशतिप्रकृतीनाम् अनन्तानुबन्धिकषायोदयकृतासंयमप्रधानास्रवाणाम् एकेन्द्रियादयः ३५ सासादनसम्यग्दृष्ट्यन्ताः बन्धकाः, तदभावे तासामुत्तरत्र संवरः । अप्रत्याख्यानावरणक्रोधमान २५ -पजनं-मु०, श्र०, ९०, मू०। २ चापे-ता०, श्र०, मू०। ३-ण्डकसं-मु.। -सासू-मु.। ५-मविक-०।
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy